________________
तथा लक्ष्य-रू कथानके राम-प्रवासो नाम तृतीयः सर्गः- ५७ ठम् । पिता ते म्लानस्त्वां द्रष्टुमिच्छंतीति आत्ययिकं वचनम् । तमिति ५४० । गति-बुद्धि-१।४।५२।' इत्यादिना कर्मसंज्ञा । शृणोतेः शब्दकर्मत्वात् अर्थमिति । '५३५। कर्तुरीप्सिततम-1१।४।४९।' इत्यनेन । प्रयियासयन्तः प्रयातुमिच्छन्तं भरतं प्रयोजितवन्तः । सन्नन्तण्यन्तोऽयम् । तदा असौ भरतो जातानिहिषः । जाता अञ्जिहिषा गमनेच्छा यस्य सः । '१९३३। अहिँ गतौ । '२२६२। इदितो नुम्-७।११५४।' तस्मादंहितुमिच्छतीति सन् । इट । '२१७६। अजादेर्द्वितीयस्य ।६।१।२।' इति हिशब्दो द्विरुच्यते । नकारस्य २२४६। न न्द्राः-६।१॥३॥' इति प्रतिषेधः । अभ्यासकार्यम् अनुस्वारपरसवौँ । '३२७९१ : प्रत्ययात् ।३।३।१०२।' इत्यकारप्रत्ययः । टाप् । आंहिष्ट गतवान् । तस्मादेवात्मनेपदिनो लुङ् । उत्कण्ठमानः स्मरन् । '२७२। मटि, २७३। अउिँ शोके ।' इत्यस्मादारमनेपदिनो रूपम् । अनेकार्थत्वाद्धातूनाम् । गुरूणां पितामहादीनाम् । '६१३॥ अधीगर्थ-२।३१५२।' इति कर्मणि षष्ठी ॥ १०८-बन्धूनशङ्किष्ट समाकुलत्वा
दासेदुषः स्नेह-वशादपायम् ॥ गोमायु-सारङ्ग-गणाश च सम्य
नो ऽयासिषुर् , भीममरासिषुश्च. ॥ २६ ॥ बन्धूनित्यादि-दुःस्वप्नदर्शनेन अकस्साच्च पितृदूतागमनेन स्नेहवशात् चेतसि समाकुलत्वादरतो बन्धूनशङ्किष्ट शङ्कितवान् ।उत्प्रेक्षितवानित्यर्थः । शङ्कतेरात्मनेपदिनो लुङि रूपम् । कीदृशान्-आसेदुषः अपायं विनाशं गतवतः । ३०९७। भाषायां सद-वस-३।२।१०।' इत्यादिना कसुः । २२६०। अत एक-हल-६।४।१२०।' इत्येत्वाभ्यासलोपौ । अस्मद्वन्धुः कश्चित् व्यसनमापनो. ऽभूदिति । गच्छतस्तस्य गोमायुसारङ्गगणाः शृगालमृगगणाश्च सम्यगनुकूलं नायासिषुः नागताः । यातेलुङि २३७७। यम-रम-७।२।७३।' इति सगिटौ। शृगालाः प्रदक्षिणं गताः मृगाश्च सव्यमित्यर्थः । भीममुद्वेगकरमरासिषुः रसिताः। रसेः परस्मैपदिनो लुङ् । '२२८४। अतो हलादेः-७।२।७।' इति वृद्धौ रूपम् । न रासेः तस्यात्मनेपदित्वात् ॥ १०९-स प्रोषिवानेत्य पुरं प्रवेक्ष्यन्
शुश्राव घोषं न जनौघ-जन्यम् , ॥ आकर्णयामास न वेद-नादान,
न चौपलेभे वणिजां पणाऽयान्. ॥ २७ ॥ स इत्यादि-स भरतः प्रोषिवान् मातामहकुलात् प्रोषितः सन् । ३०९७। भाषायां-३।२।१०।' इत्यादिना वसुः । यजादित्वात् सम्प्रसारणं द्विर्वचनम् ।
३०९६। वस्वेकाजासां ।।२।६७।' इति इट । पुरमयोध्यामेत्य भागस्य प्रवे. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com