________________
५६ भट्टिकाव्य-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः; १०५-ताः सान्त्वयन्ती भरंत-प्रतीक्षा .
तं बन्धु-ता न्यक्षिपदाशु तैले, ॥ दूतांश्च राजाऽऽत्मजमानिनीषून्
प्रास्थापयन् मन्त्रि-मतेन यूनः ॥ २३ ॥ ता इत्यादि-बन्धुता बन्धुसमूहः । १२५१ । ग्राम-जन-बन्धु-भ्यस्तल ।।२।४।' ता महिषीः सान्त्वयन्ती संस्थापयन्ती । सान्त्वं करोतीति णिच् । तं दशरथं मृतं तैले न्यक्षिपत् निक्षिप्तवती । आशु शीघ्रं । मा भूत्पूतिरिति । क्षिपेर्लुङ् । '२३४३। पुषादि-३।११५५।' इत्यङ् । कस्मात्तमक्षिपदित्याह-भरतप्रतीक्षा तेन संस्कारः कर्तव्य इति सा भरतं प्रतीक्षते । 'ईक्षि-क्षमिभ्यां च ।' इत्युपसंख्यानाण्णः । दूतान् प्रास्थापयत् प्रहितवती । राजात्मजं भरतमानिनीएन् मानेतुमिच्छ्न् । अन्यया केकयीवैमुख्यादरतेऽपि वैमुख्याता अपि नानेतुमिच्छन्ति । तत्रापि मत्रिमतेन न स्वमतेन । यूनः तेषां गन्तुं समर्थत्वात् ॥ १०६-'सुप्तो नभस्तः पतितं निरीक्षा
चक्रे विवस्वन्तम॑धः स्फुरन्तम्,' ॥ आख्यद् वसन् मातृ-कुले सखिभ्यः
पश्यन् प्रमादं भरतो ऽपि राज्ञः ॥ २४ ॥ सुप्त इत्यादि-भरतोऽपि मातृकुले वसन् सखिभ्यो मित्रेभ्यः आख्यत् कथितवान् । ख्यातेर्लुङ् । '२४३८। अस्यति-वक्ति-३।१०५२।' इत्यादिना अझ् । क्रियाग्रहणं कर्तव्यमिति संप्रदानसंज्ञायां चतुर्थी । किमाख्यदित्याह-अहं सुप्तःसन् नभस्तो नभस्तलात् आकाशात्पतितं विवस्वन्तमादित्यं स्फुरन्तं चलन्तं निरीक्षांचके निरीक्षितवान् । ईक्षेः २२३७॥ इजादेः-३।१॥३६।' इत्याम् । उत्तमविषये सुप्त. प्रमत्तावस्थायां चित्तव्याक्षेपात् परोक्षे लिट् । पश्यन् विलोकयन् । राज्ञो दशरथस्य । प्रमादमनिष्टम् ॥ १०७-अशिश्रवन्नात्ययिकं तमैत्य
दूता यदा ऽथ प्रयियासयन्तः, ॥
आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा
वुत्कण्ठमानो भरतो गुरूणाम् ॥ २५ ॥ अशीत्यादि-दूता एत्य भागत्य भरतमातृकुलमित्यर्थः । आयूर्वादिणः क्वाप्रत्ययस्य त्यपि तुकि च रूपम् । यदा तं भरतमर्थ वचनमशिनवन् श्रावितवन्तः । अर्थयतेऽनेनेति णिच् धञ्च । शृणोतेय॑न्ताल्लुडि '२३१५। चडि
31 इति द्विवचनम् । '२५७८। नवति-शृणोति-७।४।१।' इत्यभ्यासस्येत्वम् । आत्ययिकम् भत्ययो विनाशः स प्रयोजनमस्येति तदस्य प्रयोजनमिति
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com