________________
भट्टिकाव्ये प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे तृतीयो वर्गः,
१०० - सूतो ऽपि गङ्गा-सलिलैः पवित्वा सहा॒ऽऽश्वमा॑त्मानम॑न॒ल्प-मन्युः ॥ स-सीतयो राघवयोरधीयन् श्वसन् कदुष्णं पुरमविवेश ॥ १८ ॥
सुतइत्यादि सुतोऽपि सुमन्त्रः सहाश्वमश्वः सह । अनल्पमन्युः प्रवृद्धशोकः । राघवयोः रामलक्ष्मणयोः । '१८८।' सरूपाणां |१२|६४ |' इत्येकशेषः । ससीतयोः सीतासहितयोः । अधीयन् स्मरन् । '११२० । इक् स्मरणे ।' इत्यस्य शतरि रूपम् । यणादेशः | '६१३ | अधीगर्थ - | २|३|५२ | ' इति कर्मणि षष्ठी । श्वसन् । कदुष्णं ईषदुष्णम् | '१०३३। कवं चोष्णे |६| ३ | १०७ | ' इति चकारात् कदादेशः । गङ्गातटात्प्रतिनिवृत्य पुरमयोध्यामाजगाम आगतवान् । गङ्गासलिलैः आत्मानं बाह्यमाभ्यन्तरं च पवित्रीकृत्य । ' ३०५०। पूङश्च ।७/२/५१।' इति विकल्पेनेट् । '२०५१ । पूङः क्त्वा च |१| २|२२|' इति विप्रतिषेधात् गुणः ॥ १०१ - प्रतीय सा पूर् ददृशे जनेन द्यौर् भानु- शीतांशु विनाकृतैव ॥ राजन्य-नक्षत्र-समन्विता ऽपि शोकाऽन्धकार-क्षत-सर्व- चेष्टा ॥ १९ ॥
५४
प्रतीयेत्यादि - जनेन रामानुयायिना प्रतीय प्रतिनिवृत्य । पूरयोध्या दहशे दृष्टा । कर्मणि लिट् । प्रतीय इति ईङ् गतावित्यस्य रूपं न पुनरिणः । तस्य हि तुकिप्रतीत्येति स्यात् । '३३३३ | पत्वतुको र सिद्धः | ६ | ११८६ | ' इत्येकादेशस्यासिद्धत्वात् । प्रतियुषा सा ददृशे इति पाठान्तरम् । प्रतिनिवृत्तेन सा पूर्ददृशे दृष्टेत्यर्थः । अस्मिन् पाठे तु '३०९८। उपेयिवान् । ३।२।१०९ |' इत्यादिना इणः कसौ रूपं द्रष्टव्यमत्रोपसर्गस्यातत्रत्वात् । शोकोऽन्धकार इव शोकान्धकारः । तेन क्षता नीतानुष्ठेयकर्मणि चेष्टा परिस्पन्दो यस्यां पुरि सा तथोक्ता । राज्ञो - ऽपत्यानि । ' ११५३ । राज- श्वशुराद्यत् |४|१|१३७।' राजन्याः क्षत्रियाः । ' ११५४ ॥ ये चाभावकर्मणोः | ६ |४| १६८ |' इति प्रकृतिभावः । राजन्याः नक्षत्राणीव तैः समन्वितापि द्यौः भानुशीतांशुविनाकृतेव द्यौराकाशः यथा नक्षत्रसमन्वितापि रात्रौ भानुचन्द्राभ्यां विनाकृता रहिता अन्धकारच्युतसर्वचेष्टा तद्वरसापि भानुचन्द्रस्थानीययोः राघवयोर्विरहात् ॥
१०२ - विलोक्य रामेण विना सुमन्त्रमंच्योष्ट सत्वान् नृ-पतिश् च्युताऽऽशः ॥ मधूनि नैषीद् व्यलिपन् न गन्धैर्,
मनो- रमे न व्यवसिष्ट वस्त्रे ॥ २० ॥
B
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com