________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः- ५३. मदादेशः। अन्यं भरतं मा दर्शत मा द्रष्टारः स्थ । अपि तु योऽहं स एव भरतः स च प्रतिष्ठितः राज्यं पालयिष्यतीत्येव न्यगादीत् । दृशेमाङि लुङ । २२६९। इरितो वा ।३।११५७।' इत्यङ् । '२४०६। ऋ-दृशोऽङि गुणः ७।४।१६।' निवर्तय रथमिति सूतं च सुमन्त्रमाह स्म । '२७७८। लट् स्मे ।३।२।११।' इति लट् । '२४५० । बुवः पञ्चानाम्-१३।४।०४।' इत्याहादेशः । तिपो पल ॥
९८-ज्ञात्वैङ्गितैर् गत्वरतां जनाना
मैकां शयित्वा रजनी स-पौरः ॥ रक्षन् वने-वास-कृताद् भयात् तान्
प्रातशू छलेना उपजगाम रामः ॥ १६ ॥ ज्ञात्वेत्यादि-निवर्तध्वमित्युक्ते ये तत्रानिवृत्ताः तेषां जनानां रामो गत्व. रतां गमनशीलतां ज्ञात्वा । '३१४४। गत्वरश्च ३।२।१६।' इति निपातितः । तैरिङ्गितैरभिप्रायसूचकैश्चेष्टितैः । इङ्गर्भावे निष्ठा । वनेवास इति सप्तमीति योगविभागात् समासः । '९७६। शय-वास-वासिषु-।६।३।१८।' इति विभाषासप्तम्या अलुक् । तेन कृतासिंहादिभयात् रक्षन् पालयन् तान् पौरान् सपौरः पौरैः सह एकां रजनी शयित्वा । '५५८। कालाध्वनोः-२।३।५।' इति द्वितीया । शयित्वेति ३३२२। न क्त्वा सेट् ।१।२।१८।' इति । कित्त्वप्रतिषेधात् गुणो भवति । प्रातः प्रातःकाले । छलेन सन्ध्यावन्दनादिव्याजेन अपजगाम गतवान् ॥
९९-अस्राक्षुरस्रं करुणं रुवन्तो,
मुहुर्मुहुर् न्यश्वसिषुः कवोष्णम् , ॥ हा राम ! हा कष्टमिति ब्रुन्वतः
पराङ्-मुखैस् ते न्यवृतन् मनोभिः ॥ १७ ॥ असाचरित्यादि-ते पौरा राममपश्यन्तः । करुणं रुवन्तो विलपन्तः । *११०७। रु शन्दे।' इत्यस्य शतरि रूपम् । अत्रम् अश्रु। अस्राक्षुः मुक्तवन्तः। सृजे. स्तौदादिकस्य परस्मैपदिनः सिचि २४०५। सृजि दशोः-६।११५४।' इत्यम् । हलन्तलक्षणा वृद्धिः । ३२४। चोः कुः ।।२।३०।। १३॥ खरि च ।।४।५५।' इति चर्वम् । मुहुर्मुहुः भूयोभूयः कवोणमीषदुष्णमन्तःसन्तापात् । १०३३॥ कवं चोष्णे ।।३।१०७।' इति कोः कवादेशः । न्यश्वसिषुः । श्वसेर्लुङ । '२२. ९९। यन्त-1७।२।५।' इत्यादिना श्वसेर्वृद्धिप्रतिषेधः । '२२८४। अतो हलादेलघोः ।७।२७।' इति विकल्पस्य प्राप्तत्वात् । हा राम हा कष्टं कृच्छ्रमिति बुवन्तः। पराङ्मुखैः येन गतो रामस्तेन गतैर्मनोभिरित्थंभूतैः । न्यवृतन् निवृत्तवन्तः । '२३४५। द्युयो लुङि ॥१॥३॥९॥' इति परसैपदविकल्पात् । धुतादित्वादछ । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com