________________
भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे तृतीयो वर्गः,
-
५२
रूपम्। यः सर्वदा सर्वकालम् । '१९६४ । सर्वैकाम्य- |५|३|१५|' इत्यादिना दाप्रत्ययः । यश्चापुषत् पुष्टवान् । स्वपोषं धनेनास्मानपुषत् । पुषेर्लुङि रूपम् ।' २३४३ । पुषादि - |३|१|५५ |' इत्यङ् । '३३३१ | स्वे पुषः | ३ | ४ |४०|' इति णमुल् । '७८३ | अमैवाव्ययेन | २|२| २० |' इति समासः । ' २८२७ । यथाविध्यनुप्रयोगश्च | ३ | ४ |४| तस्य पितुः संबन्धिनो महोपकारस्य किमस्ति मोक्षः प्रत्युपकारो नैवेति भावः । केनेत्याह - तुच्छेन असारेण वनस्य यातेन । यातेर्भावे ल्युट् । वनस्येति शेषसामान्ये षष्ठी । कृल्लक्षणायास्तु षष्ठया गत्यर्थकर्मणि चतुर्थ्यां बाध्यमानत्वात् ॥ ९६ - विद्युत् प्रणाशं स वरं प्रनष्टो, यौर्ध्व - शोषं तृण वद् विशुष्कः, ॥ अर्थे दुरापे किमुत प्रवासे
I
न शासने वास्थित यो गुरुणाम् ॥ १४ ॥
विद्युदित्यादि - अर्थ कार्यविशेषे दुरापेऽपि कृच्छ्रप्राप्येऽपि । '३३०५॥ ईषहुः सुषु | ३ | ३|१२६ |' इत्यादिना खल। गुरूणां यच्छासनमा देशः तस्मिन् यो नावास्थित नावस्थितवान् । भवपूर्वात्तिष्ठतेर्लुङ् । '२६८९ | समव । १।३।२२। ' इत्यादिना तङ् | २३८९ । स्था- ध्वोरिञ्च | १|२| १७ | इति कित्वमित्वं च । '२३६९ | हस्वादङ्गात् ||८|२|२७|' इति सिचो लोपः । स वरं विद्युत्प्रणाशं प्रनष्टः । विद्युदिवो - स्वस्यनन्तरमेव विनाशं गतः । ३३६६ । उपमाने कर्मणि च | ३ | ४ | ४५ | ' इति चकारात् । '३३६४ । कत्रोर्जीव - पुरुषयोः | ३ | ४|४३|' इत्यतः कर्तृग्रहणानुवृत्तौ कर्तृवाचिनि विद्युच्छन्द उपपदे णमुल् । '२२८७ | उपसर्गादसमासे |८|४ | १४ | ' इत्यादिना णत्वम् । यद्वेत्यथवा । स ऊर्ध्वशोषं तृणवद्विशुष्कः । '३३६५। ऊर्ध्वं शुषि | ३ | ४ | ४४ |' इत्यादिना णमुल् । उभयत्रामैवेत्यादिना समासः । '२८२७ यथाविध्यनुप्रयोगश्च | ३ | ४ | ४ | किमु प्रवासे किम्पुनः प्रवासविषये यच्छासनं तत्र तावदनवस्थितस्य सुतरामेव पूर्वोक्तं प्रयुज्यते ॥
९७ - पौरा ! निवर्तध्वमिति न्यगदीत्, ' तातस्य शोकापनुदा भवेत, ॥ मा दर्शतोऽन्यं भरतं च मत्तो, ' निवर्तयेत्याह रथं स्म सूतम् ॥ १५ ॥
1
पौरा इत्यादि - हे पौराः ! यथागतं निवर्तध्वम् । विधौ लोट् । इति तान् न्यगादीत् उक्तवान् । रामः । गदेः '२२८४ । अतो हलादेः | ७|२|७|' इति वृद्धिः । '२२६६ । इट ईटि | ८|२|२८|' इति सिचो लोपः । तातस्य पितुः । शोकापनुदाः शोकस्यापहर्तारो भवेत । तुन्दशोकयोरित्यादिना कः । भवतेर्विधौ प्रार्थनायां वा लिङ् । मध्यमपुरुषबहुवचनम् । भरतं च मत्तो मत्तः सकाशात् । अस्मदः '१९५३ । पञ्चम्यास्तसिल | ५|३|७|' | ' १३३७ | प्रत्ययोत्तरपदयोश्च |७/२/९८|' इति
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com