________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः- ५१ ९३-'गतो वनं श्वो भवितैति रामः,'
शोकेन देहे जनता ऽतिमात्रम्॥ धीरास् तु तत्र च्युत-मन्यवो ऽन्ये
दधुः कुमाराऽनुगमे मनांसि.॥ ११ ॥ गत इत्यादि--श्व आगामिनि दिवसे वनं गतो रामो भवितेति तास् । जनता जनसमूहः । १२५१। ग्राम-जन-बन्धु-१२४३॥' इत्यादिना तल । देहे दग्धा । कर्मणि लिद । '२२६०। अत एकहल-१६।४।१२०।' इत्येत्वाभ्यासलोपौ। गत इति भूतकालः श्वोभवितेति भविष्यत्कालेन संबध्यमानः साधुः । २०२४॥ धातु-संवन्धे प्रत्ययाः ।३।। इति । ये तु तत्र वीराः ते च्युतमन्यवो विगत. शोकाः सन्तः कुमारानुगमे कुमारस्य पश्चाद्गमननिमित्तं मनांसि दधुः कृतवन्तः। राममनुव्रजाम इति । निमित्तात्कर्मसंयोगे सप्तमीति । मनांसीति कर्मणा योगात् ॥
९४-प्रस्थास्यमानापसेदुषस् तौ
शोशुच्यमानानिदमूचतुस् तान्, ॥ 'किं शोचतेहाँ ऽभ्युदये बता ऽस्मान्
नियोग-लाभेन पितुः कृतार्थान् , ॥ १२ ॥ प्रस्थेत्यादि-तौ रामलक्ष्मणौ प्रस्थास्थमानौ गमिष्यन्तौ । २६८९। सम. व-प्र-विभ्यः स्थः ।।३।२२।' इति तङ् । जनान् इदं वक्ष्यमाणमूचतुः उक्तवन्तौ । ब्रुवीत्यर्थग्रहणात् वचेर्द्विकर्मकता । उपसेदुषस्तो ढौकितवतः जनान् । '३०९७। भाषायां सद-वस-३।२।१८०।' इत्यादिना वसुः । शोशुच्यमानान् अत्यर्थं शोकं कुर्वतः। भृशार्थे यङ् । किमूचतुरित्याह-किं शोचतेति । हे जनाः । करसादस्मान् शोचत परिदेवयध्वम् । विधावपूर्वार्थप्रकाशने लोट् । इहाभ्युदये बतशब्दो विस्मये। तस्मिन् आश्चर्यभूते अभ्युदये वृद्धौ सत्याम् । कुत इत्याह-पितुर्नियोगलाभेन वनगमनाज्ञालाभेन कृतार्थान् लब्धप्रयोजनान् । कृतार्थत्वादशोच्या वयमित्यर्थः ॥
९५-असृष्ट यो, यश्च भयेष्वरक्षीद्,
यः सर्वदा ऽस्मानपुषत् स्व-पोषम् ॥ महोपकारस्य किमस्ति तस्य
तुच्छेन यानेन वनस्य मोक्षः, ॥ १३ ॥ असष्टेत्यादि-असृष्ट जनितवान् । सृजेवादिकस्यात्मनेपदित्वात् लुकि रूपम् । न तौदादिकस्य परस्मैपदित्वात् २४०५।सृजि-दृशोः-६॥१॥५४॥' इत्यम् । बच भयेषु सत्सु अरक्षीत् पालितवान् । '७०६। रक्ष पालने ।' इत्यस्य लुङि Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com