________________
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः - ४३
हो राजन्यकम् । '१२४६ । गोत्रोक्ष - १४ |२|३९|' इत्यादिना वृञ् । 'प्रकृत्या के राजन्यमनुष्ययुवानः' इति प्रकृतिभावादपत्ययकारलोपो न भवति । हस्तिनां समूहो हास्तिकम् | '१२५६ | अचित्त- हस्ति - |४| २|४७|' इति ठक् । एषां सेनाङ्गत्वात् द्वन्द्व एकवद्भावः । तेनाढ्यमुपचितमिति तृतीयेति योगविभागात् समासः । सह राज्ञेति विगृह्य साकल्यवचने यौगपद्ये वाव्ययीभावः । '६६० । अव्ययीभावे चाकाले |६|३|८१।' इति स भावः । ' ६७८ । अनश्च - ५|४|१०८ ।' इति टच् समासान्तः । अध्वनीनमध्वानमलंगामीति '१८१७| अध्वनो यत्-खौ |५|२|१६| ।१६७१। आत्माध्वानौ खे | ६ |४| १६९ | ' इति प्रकृतिभावः ॥
७७ - विशेङ्कटो वक्षसि बाण - पाणि: संपन्न - ताल - द्वयसः पुरस्तात् ॥ भीष्मो धनुष्मानु॑पजान्व॒रनि
रैति स्म रौमः पथि जामदग्न्यः ॥ ५० ॥
"
विशङ्कटेत्यादि - एवमस्य गच्छतः पथि मार्गे । सप्तम्यां ' ३६८ । भस्य टेर्लोपः | ७|१|८८ |' पुरस्तादग्रतः । '१९७६ । अस्ताति च |५|३|४०|' इति पूर्वस्य पुरादेशः । रामो जामदम्यः । जमदग्नेरपत्यं रामोऽयम् । गर्गादिपाठाद्यत् । स ऐति स्म आगतवान् । आङ्पूर्वादिणो लट् । '७३। एत्येधत्यू | ६ | १|८९ | ' इति वृद्धिः । विशङ्कटो वक्षसि विशाल उरसि ।' १८२९ । वेः शालच्छङ्कटचौ |५|२|२८|' इति शङ्कटच् । बाणः पाणावस्येति बाणपाणिः । 'प्रहरणार्थेभ्य' इत्यादिना सप्तम्यन्तस्य परनिपातः । संपन्नो निष्पन्नो यस्तालवृक्षः स प्रमाणं यस्य स तथोक्तः । ' १८३८ । प्रमाणे द्वयसच् - ५।२।३७१' भीयते अस्मादिति भीष्मः | 'भियः षुग्वा ' इति औणादिको मक्प्रत्ययः । वा षुगागमश्च । '३१७३ | भीमादयोऽपादाने ॥ ३ ॥ ४|७४|' इत्यपादाने साधुः । धनुष्मान् धनुषा युक्तः । संसर्गे मतुप् । जानुनोः समीपमुपजानु । सामीप्येऽव्ययीभावः । उपजानु अरनिर्यस्य स तथोक्तः प्रलम्बबाहुरित्यर्थः ॥
७८ - उच्चैरसौ राघवमहृदं
·
धनुः स-वाणं कुरु, माऽतियासीः ॥ पराक्रम-ज्ञः प्रिय-सन्ततिस तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूचे. ॥ ५१ ॥ उच्चैरित्यादि - उच्चैर्ममता ध्वनिना राघवं दाशरथिं एवं वक्ष्यमाणमाहृत
१ – ११०६ । विशङ्कटं पृथु बृहद् विशालं पृथुलं महत् ।' इति सर्वत्र ना० अ० । २ - 'भूम - निन्दा - प्रशंसा-सु नित्य-योगेऽति - शायने ॥ संसर्गे ऽस्ति-विवक्षायां भवन्ति मतुबादयः ॥ १ ॥' इति वै० भ० । ३ - 'रामम्' इति वा कचित्पाठः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com