________________
म पूर्ववत शोभाम् | अलंकारो बहलामाता प्रिय-स्थिरमित्याह
लमुक्ताफलभर्मशोभामा उत्कृष्टा रत्नादिशोभा हिता वृत्तिः प्रथा
४२ भट्टि-काव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
७५-लब्धा ततो विश्वजनीन-वृत्तिस्
तामात्मनीनामुदवोढ रामः ॥ सद्-रत्न-मुक्ता-फल-भर्म-शोभां
संबंहयन्ती रघु-वर्य-लक्ष्मीम् ॥४८॥ लब्धामित्यादि-ततो दानानन्तरम् लब्धां तामात्मनीनाम् आत्मने हिताम्। १६७०। आत्मन्विश्व-५११।९।'इति खः।रामः उदवोढ । वहेः स्वरितेत्त्वात्कर्तुः क्रियाफलविवक्षया तङ् । विश्वजनीना विश्वजनाय हिता वृत्तिः प्रवृत्तिर्यस्य रामस्थ सः पूर्ववत् खः । सती उत्कृष्टा रत्नादिशोभा यस्याः । तैरलंकृतत्वात् । तां सद्नमुक्ताफलभर्मशोभाम् । भर्म स्वर्णम् । सर्वधातुभ्यो मनिन् । 'भर्म भूषाम्' इति पाठान्तरम् । सद्रनादिभूषा अलंकारो यस्या इति योज्यम् । ३२८०। गुरोश्च हलः ।३।३।१०३।' इत्यकारः । संबंहयन्ती संबहुलामतिस्थिरां कुर्वाणाम् । बहुलशब्दात् 'तत्करोति-' इति णिचि इष्टवद्भावात् '२०१६। प्रिय-स्थिर-६।४।१५७।' इत्यादिना बंहादेशः । पश्चात्तदन्तस्य संपूर्वस्य साधनेन योगः । कामित्याहरघुवर्यलक्ष्मीमिति । रघुवर्गे भवां विभूतिम् । १४४२ । वर्गान्ताच्च ।४।३।६३।' इत्यनुवृत्तौ १४४३॥ अशब्दे यत्खावन्यतरस्याम् ।४।३।६।' इति यत् ॥
७६-सु-प्रातमासादित-संमदं तद्
वन्दारुभिः संस्तुतमभ्ययोध्यम् ॥ अश्वीय-राजन्यक-हॉस्तिकाऽऽन्य
मंगात् स-राजं बलमध्वनीनम् ॥ ४९ ॥ सुप्रातेति-विवाहं निर्त्य प्रभाते अयोध्याभिमुखं तद्बलं दशरथस्यागात् गतवत् । सुप्रातं निरुपद्रवत्वात् । शोभनं प्रातर्दिनमुखं यस्य बलस्य । ४६०। सुप्रात-सुश्व-।५।४।१२०।' इत्यादिना समासान्तष्टिलोपश्च निपात्यते । आसादितसंमदं प्राप्तहर्षम् । ३२४५। प्रमद-संमदौ हर्षे ।३।३।६८।' इति निपातनम् । वन्दारुभिः संस्तुतं कृतस्तवम् । अभ्ययोध्यम् भयोध्याभिमुखम् । ६६८। लक्षणेनाऽभि-प्रती आभिमुख्ये ।२।१।१४' इति अव्ययीभावः । अश्वानां समूहो अश्वीयम् । '१२५७। केशाश्वाम्यां यन्छौ-४।२।४८' इति छः । राजन्यानां क्षत्रियाणां समू
१-९८० । स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।' इति ना० अ० २–'मुत् प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोद-संमदाः॥ १४७१ स्यादानन्दथुरानन्दः धर्म-शात-सुखानि च ।' ३-८१३॥ वृन्दे त्वचीयमाश्ववत् ॥ ४-७६९ । अथ राजकम् । राजन्यकं च नृपति-क्षत्रियाणां गणे क्रमात् ॥' ५–४०२ हास्तिकं गजता वृन्दे । ६-७८२ । अध्वनीनोऽध्वगो ऽवन्यः पान्यः पथिक इस्खपि ॥ . Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com