________________
४४ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, आहूतवान् । २७०४। स्पर्धायामाङः ।।३।३।' इत्यात्मनेपदम् । २६९६। आत्मनेपदेष्वन्यतरस्याम् ।।४।४।' इति च्लेरङ् । धनुः सबाणं कुरु । धनुषि बाणमारोप्य युद्धाय सजीभवेत्यर्थः । मातियासीः मातिक्रम्य गमनं कार्षीः । यातेमौङि लुङ् । अडभावः । २३७७। यम-रम-नमातां सक्क १७२।७३।' इति इट् ।' “२२६६। इट ईटि-२।२८।' इति सिचो लोपः। अथ क्षितीन्द्रो दशरथः तमूचे। '२४५३। बुवो वचिः ।२।४।५४।' । आदेशस्य स्थानिवद्भावेन कर्तुः क्रियाफलविवक्षायां तङ् न । वचेः परस्मैपदित्वात् । २४०९।वचिस्वपि-६३१।१५।' इत्यादिना संप्रसारणम् । पराकमज्ञः यतस्तस्य पराक्रमं जानाति राजा । प्रियसन्ततिः प्रिया सन्ततिर्यस्य । रामे व्यापादिते मा भूत्सन्तानविच्छेद इति नम्रः प्रणतो भूत्वा अनुनिनीषुः अनुनेतुमिच्छुः॥ तदनुनयमाह
७९-अनेक-शो निर्जित-राजकस् त्वं,
पितॄनताप्सीर नृप-रक्त-तोयैः, ॥ संक्षिप्य संरम्भम-सद्-विपक्षं,
का ऽऽस्था ऽभके ऽस्मिंस्तव राम ! रामे. ५२ अनेकश इत्यादि-संरम्भं क्रोधं संक्षिप्य उपसंहर । क्षिपेः लोटि मध्यमैकवचने रूपम् । श्यन् । एकमेकमिति विगृह्य । '२११०। सङ्ख्यैकवचनाच1५४४१४३॥' इति शस् । पश्चान्नसमासः । अनेकशोऽनेकप्रकारमिति क्रियावि. शेषणमेतत् । निर्जितं पराजितं राजकं राज्ञां समूहो येन स निर्जितराजकः । "१२४६। गोत्रोक्ष-४।२।३९।' इत्यादिना वुञ् । त्वं पुनः पितॄनतासः प्रीणितवानसि । कैः-नृपरक्ततोयैः । १२७१॥ तृप प्रीणने ।' इत्यस्माल्लुङ् । सिच् । हलन्तलक्षणा वृद्धिः । असद्विपक्षम् असनविद्यमानो विपक्षो यस्मिन् संरम्भे । निर्जितराजकत्वात् । रामो विपक्ष इति चेदाह-कास्था केऽस्मिंस्तव राम रामे । हे परशुराम अर्भके बालके रामे तव का आस्था क आदरोऽस्ति । नैवेत्यभिप्रायः॥
८०-अजीगणद् दाशरथं न वाक्यं
यदा स दर्पण, तदा कुमारः॥ धनुर् व्यकार्कीद् गुरु-बाण गर्भ,
लोकानलावीद् विजितांश्च तस्य. ॥ ५३ ॥ अजीगणदित्यादि-दाशरथं दशरथस्येदं दाशरथम् । '१५००। तस्येदम् १-वामभागीयैकोनपञ्चाशत्तमाऽङ्क( ४९ )-पद्य-गत-राजन्यक शब्दोपरितनं टीकनं प्रेक्ष्यताम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com