________________
भट्टिकाव्ये - प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
I
क्षिप्रमित्यादि - भाख्यान्ति कथयन्ति ये ते आख्यायकास्तेभ्यः श्रुता सूनुवृत्तिर्येन स राजा दशरथः । सूयत इति सूनः पुत्रः । 'दाभाभ्यां नुः' इति वर्तमाने 'सुवः किञ्च' इत्यौणादिको नुप्रत्ययः । ततोऽनन्तरमेव क्षिप्रं शीघ्रम् | 'स्फायि तचि -' इत्यादिना रक् । क्रियाविशेषणं चैतत् । मिथिलामगच्छत् । भरतशत्रुघ्नाभ्यां सहेत्यर्थादनुषक्तव्यम् । गमेर्लङि ' २४०० । इषु-गमि यमां छः ।७।३।७७|' अध्वानम् भलंगामिनो ये तुरङ्गा अश्वाः ते अध्वन्याः । भलंगामीत्यस्मिन्नर्थे ‘१८१७। अध्वनो यत्-खौ | ५|२| १६ | ' इति यत् । '११५४। ये चाभावकर्मणोः । ६ । ४ । १६८ ।' इति प्रकृतिभावः । तैः साधु यातीति साधुकारिणी णिनिःअध्वन्यतुरङ्गयायी । एवं च कृत्वा अग्लानयानः न विद्यते ग्लानं ग्लानिर्यमिन्याने तत् अग्लानं । अग्लानं यानं यस्य । तादृशैस्तुरङ्गैः सुखयानः । ग्लाने ति भावे निष्ठा । ३०१७ | संयोगादेरातः - १८ | २|४३|' इति नत्वम् । वृद्धतमोऽपि यविष्ठवन् । युवशब्दस्येष्ठनि २०१५ | स्थूल- दूर - १६।४।१५६ |' इत्यादिना यणादिपरलोपः पूर्वस्य च गुणः । पश्चात् '१७७८ । तेन तुल्यम् - १५१११११५ ।' इति वतिः ॥
७२ - वृन्दिष्ठमचद् वसुधाऽधिपानां तं प्रेष्ठतं गुरु- वद् गरिष्ठम् ॥ सदृङ्-महान्तं सुकृता॒ऽधिवासं
४०
बंहिष्ठ - कीर्ति यशसा वरिष्ठम् ॥ ४५ ॥
U
वृन्दिष्ठमित्यादि - तं राजानमेतमायान्तं जनक भार्चीत् पूजितवान् । अर्चेलुङि रूपम् । वृन्दिष्ठं वृन्दारकतमम् । प्रशस्ततममित्यर्थः । केषां वसुधाधिपानां पृथ्वीपतीनाम् । प्रेष्ठं प्रियतमम् । गुरुवत् गुरुणा तुल्यं वर्तमानं गरिष्ठम् गुरुतमम् । सदृक् समानान्ययोश्चेत्युपसंख्यानाद् दृशेः क्विप् । रूढिशब्दश्वायम् । नात्र दर्शन क्रिया विद्यते । अभिजनादिभिस्तुल्यो जनक इत्यर्थः । महान्तं महानुभावं सदृशां मध्ये महान्तम् । सुकृताधिवासं सुकृतनिलयम् । अधिवसत्यस्मिन्निति अधिकरणे घञ् । बंहिष्ठा बहुलतमा कीर्तिर्यस्य स बंहिष्ठ - कीर्तिः । यशसा वरिष्ठं गुरुतमम् । अत्र वृन्दारकप्रियगुरुब हुलो रूणा मिष्ठनि यथासंख्यं ' २०१६ | प्रियस्थिर - 1६।४।१५७१' इत्यादिना वृन्दप्रगबैहवर इत्येते आदेशा भवन्ति ॥
1
७३ - त्रि-वर्ग- पारीणमसौ भवन्तमध्यासयन्नसनमै कमि॑िन्द्रः ॥
१ – '११५७॥ क्षेपिष्ठ-क्षोदिष्ठ-प्रेष्ठ वरिष्ठ स्थविष्ठ-बंहिष्ठाः ॥ क्षिप्रक्षुद्राऽमीप्सितपृथु- पीवरः बहुल-प्रकर्षाऽर्थाः ॥११५८। साधिष्ठद्राघिष्ठ- स्फेष्ठ-गरिष्ठ- हसिष्ठ-वृन्द्रिष्ठाः ॥ बाढ व्यायत-बहुगुरु वामन-वृन्दारकाऽतिशये ॥' इति ना० अ० । २ – त्रिवर्गो धर्मकामाऽर्थैशू, चतुर्वर्गः सन्मोक्ष-कैः, ॥ ७६६ । स-बलैस् तैश् चतुर्भद्वम्. ।'
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com