________________
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः - ३९
अनेन धनुषा त्रिपुरं दग्धमिति । प्रहेहेतुमण्ण्यन्ताच्चडि णिलोपः । '२३१४ | णौ च - ७|४|१|' इति ह्रस्वः । सम्वद्भावादित्वम् । ग्रहेश्च बुद्ध्यर्थत्वात् । '५४० । गतिबुद्धि-|१|४|५२|' इत्यादिना रामस्य कर्मसंज्ञा । अस्य रामस्य बाह्वोर्भुजयोबैलं जिज्ञासमानो जनकः ॥ एवंभूतं धनुः हसन् समयमानो रघुनन्दनो रामः अभाङ्क्षीत् भग्नवान् । भञ्जेर्लुङि सिचि हलन्तलक्षणा वृद्धिः । तत्र हि हलग्रहणं समुदायप्रतिपत्त्यर्थमित्युक्तम् ॥
७० - ततो नदी ष्णान् पथिकान् गिरि-ज्ञानायकान् भूमि-पतेरयोध्याम् ॥ दित्सुः सुतां योध-हरैस्तुरङ्गैर् व्यसर्जयन् मैथिल-मर्त्य-मुख्यः ॥ ४३ ॥
तत इत्यादि - धनुर्भङ्गादनन्तरं महानयमिति ज्ञाखा जनकः सुतां दुहितरं दित्सुः दातुमिच्छुः । ददातेः । ' २६२३ | सनि मी मा - ७|४|५४|' इत्यादिना अच इस् । द्विर्वचनम् । २६२० । अत्र लोप - १७|४|५८|' इत्यभ्यासलोपः । '२३२७। सः सि-७।४।७९ |' इति तत्वम् । '३१४८ | सनाशंस भिक्ष उः ।३।२। १६८ ।' भूमिपतेर्दशरथस्य आह्वायकान् आह्वयन्ति आकारयन्तीति कर्तरिण्वुल् । '२७६१। आतो युक् - १७१३ | ३ |' कृत्प्रयोगे भूमिपतेः कर्मणि षष्ठी । तान् अयोध्यां व्यसर्जयत् विसर्जितवान् । विपूर्वस्य सृजेर्हेतुमण्ण्यन्तस्य लङि रूपम् । गत्यर्थत्वात् द्विकर्मकता । नद्यां स्नान्तीति नदीष्णाः । '२९१६ । सुपि स्थः | ३ |२| ४|' योगविभागात्कः । ' २३७२ । अतो लोपः - १६ । ४ । ६४ । ' | '३०८२ नि-नदीभ्यां नातेः - १८ |३|८९ |' इति षत्वम् । नदीं तरीतुं कुशलानित्यर्थः । पथिकान् पथिकुशलान् । '१८६३ । तत्र कुशलः पथः | ५|२/६३ | ' इति ठक् । गिरिज्ञान् । यथाप्रदेशं गिरिज्ञान् । '२८९७ इगुपध - |३|१|१३५॥ ' इत्यादिना कः । तुरङ्गैः अश्वैः करणभूतैः । युध्यन्त इति योधाः । पचाद्यच् । तानाहर्तुं क्षमैः । '२९२४ | वयसि च |३|२|१०|' इत्यच् । हसिमृग्रिण्वामिदमिलू पूधुर्विभ्यस्तन्' इत्यौणादिकस्तन् । म्रियन्ते प्राणिनोऽस्मिन्निति मर्त्यो भूर्लोकः । तत्र भवा मर्त्या मनुष्याः । दिगादेराकृतिगणत्वात् यत् । आकृतिगणत्वस्य लिङ्गं 'देवमनुष्य पुरुषपुरुमर्त्यभ्यः' इति निर्देशः । मुखमेव मुख्यः प्रधानम् । '२०५८। शाखादिभ्यो यत् |५|३|१०३ ॥' । मर्त्यानां मुख्यो मर्त्यमुख्यः । मैथिलश्चासौ मर्त्यमुख्यश्चेति विशेषणसमासः । जनक इत्यर्थः ॥
I
७१ - क्षिप्रं ततो ऽध्वन्य- तुरङ्ग-यायी यविष्ठ - वद् वृद्ध-तमो ऽपि राजा ॥ आख्यायकेभ्यः श्रुत-सूनु-वृत्ति
रे ग्लान- यानो मिथिलामगच्छत्. ॥ ४४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com