________________
३८ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
ब्दस्य द्विवचनम् । २४५६। न न्द्राः-६।१।३।' इति नकारस्य प्रतिषेधः । अभ्यासकार्यम् । आञ्जिहदिति रूपम् । राज्ञां यशांसि निजिघृक्षयिष्यन् निग्रहीतुममिभवितुमेषयिष्यन् । ग्रहेः सन् । २६१०। सनि ग्रह-गुहोश्च ।।२।१२।' इति इप्रतिषेधः । द्विर्वचनादि । '१६०९। रुद-विद-१२।८।' इत्यादिना सनः कित्त्वम् । २४१२। ग्रहि-ज्या-1६।१।१६।' इत्यादिना संप्रसारणम् । ढत्वभष्भावौ। गकारस्य धकारः । करवषत्वे । पश्चाण्णिच् । तदन्ताद्भविष्यत्सामान्यविवाक्षयां लट् । तेन भविष्यदनद्यतने लुट् न भवति ॥
६८-एतौ स्म मित्रावरुणौ किमतौ,
किमश्विनौ सोम-रसं पिपासू , ॥ जनं समस्तं जनकाऽऽश्रम-स्थं
रूपेण तावौजिहतां नृ-सिंहौ. ॥४१॥ एतावित्यादि-एतौ तत्रागतौ नृसिंहौ नरौ सिंहाविव । जनकाश्रमस्थं जनं रूपेण स्वरूपतया औजिहतां वितर्क कारितवन्तौ । सिंहाविव । '६९५। ऊह वितकें।' इत्यस्माद्धातोःण्यन्तात् कर्तुः क्रियाफलाविवक्षायां '२५६३। णिचश्च ॥१॥३॥ ६४।' इति तङ् न भवति । चङि णिलोपस्य स्थानिवद्भावात् । '२१७६। अजादेर्द्धितीयस्य ।६।१२।' इति द्विवचनम् । ऊहमाह-मित्रावरुणौ आदित्यवरुणौ। '९२२। देवता-द्वन्द्वे च ।६।३।२६।' इत्यानङ् । तयोर्महानुभावत्वात् । सोमरसं पिपासू पातुमिच्छू । '६२७। न लोका-२।३।६९।' इति षष्ठीप्रतिषेधः । एतावागतौ । आयूर्वस्येणो निष्ठायां रूपम् । किमश्विनौ अश्विनीकुमारौ सोमरसं पिपासू एताविति । एवं जनम् औजिहताम् । सुशब्दपाठे एतौ सुमित्रेति पाठः । एतौ स मित्रेति सशब्दो निपातः पादपूरणार्थः ॥
६९-अजिग्रहत् तं जनको धनुस् तद्
'येनाऽदिदद् दैत्य-पुरं पिनाकी', ॥ जिज्ञासमानो बलमस्य बाहोर,
हसन्नभाजीद् रघु-नन्दनस् तत्. ॥ ४२ ॥ अजिग्रहदित्यादि-येन धनुषा दैत्यपुरं पिनाकी महादेव आर्दिदत् हिंसितवान् । अर्दः स्वार्थिकण्यन्तात् चङि । '२१७६। अजादेवितीयस्य ७१।।' इति दिशब्दो द्विरुच्यते।रेफस्य प्रतिषेधः। तद्धनु तं रामं जनकः अजिग्रहत् योधितवान्।
१-नृ-सिंहावित्युपमान-पूर्वपदः कर्मधारय समासस्तत्रोदाहरणं समास-कुसुमावल्याम् '-रामोऽयं पुरुषव्याघ्रः संवृतः कपि कुञ्जरैः ॥ हनिष्यति बलाद् युद्ध रावणं राक्षसपभम् ॥ १७ ॥ । 'स्युरत्तरपदे व्याघ्र-पुङ्गव-र्षभ कुञ्जराः ॥ ११०५। सिंहशार्दूल-नागाऽऽद्याः पुंसि श्रेष्ठाऽर्थगोचराः ।।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com