________________
३६
भट्टिकाव्ये प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
-
तृणाय मत्वा रघुनन्दनो ऽथ बाणेन रक्षः प्रधनान् निरास्थत्. ॥ ३६ ॥
इत्थमित्यादि -- इत्थम् अनेन प्रकारेण प्रवादः अन्योन्याभिघातो यत्र संप्रहारे तं संप्रहारं परस्पराभिभवलक्षणं प्रकृतवन्तौ । युधि रणभूमौ । युध्यन्ते अस्यामिति । सम्पदादित्वादधिकरणे क्विप् । रामनिशाविहारौ । रामो निशा चिहा निशाचरो मारीचश्चेत्यर्थः । निशायां विहारों यस्येति समासः । अथानन्तरं रघुनन्दनो रघुवंशस्य नन्दयिता रामो रक्षः मारीचं बाणेन तत्सम्बन्धिनि सत्यपि तृणाय मत्वा तृणमिव अवमत्य । ५८४ | मन्यकर्मण्यनादरे - | २|३|१७| इति चतुर्थी तत्र प्रकृष्टकुत्सितग्रहणं कर्तव्यम् । इह मा भूत् । तृणं मत्वेति । प्रधनात् संग्रामात् निरास्थत् अपनीतवान् ॥
६४ - जग्मुः प्रसादं द्विज-मानसानि, द्यौर् वर्षका पुष्प चयं बभूव ॥ निर्व्याजमिज्या ववृते वचश् च भूयो बभाषे मुनिना कुमारः - ॥ ३७ ॥
I
जग्मुरित्यादि - यागविघ्नकारिषु निरस्तेषु द्विजानां मानसानि मनांस्येव मानसानि । ' २१०६ । प्रज्ञादि - ५|४|३८|' इत्यण् । प्रसादम् अव्याकुलत्वं जग्मुः गतानि । '२३६३। गम- ६।२२९८ ' इत्युपधालोपः । द्यौः पुष्पचयं वर्षुका वर्षणशीला बभूव भवति स्म । '३१३४ । लष-पत-पद- ३।२।१५४।' इत्यादिना उकञ् । '६२७| न लोका - २।३।६९।' इति षष्ठीप्रतिषेधः । निर्व्याजं निर्विघ्नम् । इज्या यागः । '३२७५ । व्रज- यजोर्भावे - ३।३।१८।' इति क्यप् । ववृते वृतः लिट् । भूयः पुनरपि मुनिना गाधेयेन । कुमारः । अकृत दारकर्मत्वात् । वचो वक्ष्य. माणं बभाषे । कर्मणि लिट् । बुवीत्यर्थग्रहणात् द्विकर्मकता । वचः कुमारश्च ॥
1
1
६५ - महीय्यमाना भवता ऽतिमात्रं
सुराऽध्वरे घस्मैर- जित्वरेण ॥ दिवोऽपि वज्राऽऽयुध-भूषणाया हिणीयते वीरवती न भूमिः ॥ ३८ ॥
१–‘८६९। युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ मृधमास्कन्दनं संख्यं समीकं साम्परा यिकम् ॥' इति ना० अ० । २ - १२३६ । दन्त विप्राऽण्ड-जा द्विजाः । ३–'१०६५। भक्षको घमरो ऽझरः ।' ४ – ' ८४२ नेता जिष्णुश् च जित्वरः । इति सर्वत्र ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com