________________
तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- ३५ प्रकृतेश्च तदूह्ममिति वचनात् । '६१७। जासि-निप्रहण-२॥३॥५६॥' इत्यत्र सङ्घातविगृहीतविपर्यस्तग्रहणात् षष्ठी प्राप्तापि न भवति । कर्मणः शेषत्वेनाविवक्षितत्वात् । पुरं नगरं प्रेतनराणां मृतनराणाम् । अधिवासमवस्थानं कुर्मः। नित्यहननेन मशानतुल्यमित्यर्थः । कस्मादेवमित्याह-धर्म इति । दशरथस्यापत्यं दाशरथिः । '१०९५। अत इञ् ।।१।९५।' । हे दाशरथे । हि यस्मादर्थे वर्तते । यस्मादयं धर्मः भाचारः। निजो नित्यः । न इत्यस्माकम् । वेदविरुद्ध इति चेत्-नैवाध्यकारिष्महि वेदवृत्ते । वेदविहितं वृत्तमिति मध्यमपद. लोपी समासः । यद् ब्राह्मणानामुक्तमनुष्ठानं तत्र वयं नैवाधिकृता इत्यर्थः । अधिपूर्वास्करोतेः कर्मणि लुङ् । '२७५७। स्यसिच्-६०६२।' इत्यादिना चिण्वदिद ॥
६२-धर्मोऽस्ति सत्यं तव राक्षसाऽय.
मन्यो व्यतिस्ते तु ममाऽपि धर्मः, ॥ ब्रह्म-द्विषस् ते प्रणिहन्मि येन,
राजन्य-वृत्तिर् धृत-कार्मुकेषुः ॥ ३५ ॥ धर्म इत्यादि-रामः प्राह । हे राक्षस रक्ष एव राक्षसः । प्रज्ञादित्वादण् । स्वार्थिका अतिवर्तन्त इति पुंल्लिङ्गता । तवायं पूर्वोक्तः पराभिद्रोहलक्षणो धर्मोऽस्तीति सत्यमेतत् किन्तु ममापि रामस्य अन्यो धर्मोऽशिष्ट निग्रहलक्षणो व्यतिस्ते व्यतिभवते । इदमुक्तं भवति-यद्यप्येवंप्रकारस्त्वद्धर्मो भविष्यति तथापीदानीमेव या त्वद्धर्मेण विद्यमानतया निष्पाद्या सा असद्धर्मेणैव निष्पादकत्वेन व्यतिस्ते । ततश्चान्यसम्बन्धिनी क्रियामन्यः करोति इतरसम्बन्धिनीमितर इति धर्मव्यतिहारसम्भवात् । अस्तेः '२६८०। कर्मव्यतिहारे । १।३।१४।' तङ् । तथाहि यो यदवसरे यां कांचित् क्रियां करोति स तक्रियाकारीत्युपचारालोक उच्यते । येन धर्मेण हेतुना ब्रह्मद्विषस्ते प्रणिहन्मि मारयामि स व्यतिस्ते इति योज्यम् । '२२८५। नेर्गद-1८।४।१७।' इत्यादिना णत्वम् । '६१७॥ जासि-नि-२॥३॥५६॥' इत्यादिना कर्मणि षष्ठी । तथा कथं तव धर्म इति चेदाहराजन्यवृत्तिरिति । क्षत्रियवृत्तिः। ततो राज्ञोऽपत्यम् । '११५३। राजश्वशुरायत् ।४।१।१३७॥' । ११५४। ये च ।६।४।१६८।' इति प्रकृतिभावः। एतं कार्मुकम् इषवश्व येन सः । यतः अहं राजन्यवृत्तिः ततोऽहं तकार्मुकेषुरिति । 'धृतकार्मुकेषु' इति पाठान्तरम् । क राजन्यवृत्तिः सायुधेष्वित्यर्थः ।
६३-इत्थं-प्रवादं युधि संप्रहारं
प्रचक्रतू राम-निशा-विहारौ, ॥
१-१३४७ धर्माः पुण्य-यम-न्याय-स्वभावाचारसोममाः' इति ना० भ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com