________________
३४ भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
गाधेयेत्यादि — गाधेरपत्यं गाधेयो विश्वामित्रः । व्यच इत्यनुवर्तमाने '११२५ । इतश्चानिञः |४| १|१२२|' इति ढक् । तेन दिष्टं कथितं मारीचं नाम राक्षसं रामो जगाद गदितवान् । रसन्तम् वदन्तम् । विरसमश्राव्यमिति क्रियाविशेषणम् । मायाचणं मायया वित्तम् अखचुचुः अस्त्रैः प्रतीतो रामः । '१८२७। तेन वित्तपचणपौ | ५|२| २६ ।' इति । स्थास्तुं रणे स्थितिशीलम् । तस्यें सेनापतित्वात् । स्मेरमुखः चित्तस्याक्षोभादीषद्धसनशीलवदनः । '३१४७ ॥ नमिकम्प | ३|२| १६७ |' इत्यादिना रः । उच्चैस्तरां जगादेति क्रियाविशेषणम् । वचनं वक्ष्यमाणं महार्थं प्रधानार्थम् | बुविशासीत्यत्र बुवीत्यर्थग्रहणाद्विकर्मकता । मारीचं वचनं च ॥
६० - आत्मं भरिस् त्वं पिशितैर् नराणां फले-ग्रेहीन् हंसि वनस्पतीनाम् ॥ शौवस्तिकत्वं विभवा न येषां
व्रजन्ति तेषां दयसे न कस्मात्. ॥ ३३ ॥
"
आत्मेत्यादि - नराणां पिशितैर्मासैः आत्मानं बिभर्षि पुष्णासि । नान्यदपि शरीरस्थितिहेतुर्भवतीति भावः । स त्वमात्मम्भरिः आत्मभरणाय फलानि गृह्णन्ति ये वनस्पतीनां तान् फलेग्रहीन् फलाशिनो मुनीन् हंसि मारयसि । शपो लुक् । '२९४० । फलेग्रहिरात्मम्भरिश्व | ३ |२| २६ ।' इति निपातितौ । श्वो भवितारः शौवस्तिकाः । ' १३८५ | श्वसस्तुट् च | ४ | ३ | १५ |' इति उम् तुडागमश्च । द्वारादित्वादैजागमः । शौवस्तिकत्वं तद्येषां विभवा न व्रजन्ति तेषामश्वस्त निकवृत्तीनां कस्मान्न दयसे न रक्षसि । '६१३। अधीगर्थ- दयेशाम्-1 २३५२१' इति कर्मणि षष्ठी ॥
६१ - अझो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेत नराधिवासम्, ॥ धर्मो ह्य॑यं दाशरथे ! निजो नो, Vaisध्यकारिष्महि वेद - वृत्ते ॥ ३४ ॥
अद्म इत्यादि - राक्षसः प्राह । द्विजान् ब्राह्मणक्षत्रियवैश्यान् अद्मो भक्षयामः । देवयजीन् देवान् यजन्ति आराधयन्ति ये तान्निहन्मः । 'अच इः' इत्यनुवर्तमाने खनीत्यादिषूयमानेष्वौणादिकेषु सूत्रेषु यद्यपि यजिर्न पठितस्तथापि यजेरिः
१ – '१०६६ । उभौ त्वत्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके ॥ २ - ३५४ । वानस्पत्यः फलैः पुष्पात् तैरं-पुष्पाद् वनस्पतिः ॥ ओषध्यः फलपाकाऽन्ताः स्युर॑वन्ध्यः फलेग्रहिः. ॥ इति सर्वत्र ना० अ० । ३ - १३४७| धर्माः पुण्य-यमन्याय स्वभावाऽऽचार - सोमपाः ।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com