________________
तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- ३३
ततः क्षपाऽटैः पृथु-पिङ्गलाऽक्षः
खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः ॥ ३० ॥ आपिङ्गेत्यादि-ततः कर्मप्रवर्तनादनन्तरम् । क्षपाटैः निशाचरैः । अट. न्तीत्यटाः पचायच् । क्षपायामटा इति । सप्तमीति योगविभागात् समासः । खमाकाशमानशे व्याप्तम् । अश्नोतेः कर्मणि लिद । २५३३॥ अश्नोतेश्च ।७।१।७२।' इति लुङ ॥ शिरसि जाताः शिरस्याः । १६६६। शरीरावयवाद्यत् ।५।१६।' आपिङ्गा आ समन्तात् पिङ्गा विद्युदिव । रूक्षाः सूक्ष्माः अर्ध्वशिरस्था बाला येषां तैः । अन्योऽपि शिरस्यो भवति इति बालग्रहणम् । अमङ्गलबाला इत्यर्थः । शिराः सन्ति यासामिति १९०३। प्राणिस्थादातो लजन्यतरस्याम् ।५।२।९६।' इति लच् । शिराला जङ्घा येषां तैः । गिरिकूटदग्नैर्गिरिकूटप्रमाणैः । १८३८ । प्रमाणे द्वयसच्-।५।२।३७।' इति दन्न । पृथूनि विस्तीर्णानि पिङ्गलानि चाक्षीणि येषां तैः । '४५२। बहुव्रीही सक्थ्यक्ष्णोः -५।५।११३।' इति षच् । प्रावृषे. ण्यैरिवेति १३८८। प्रावृष एण्यः ।।३।१७।' अब्दैर्मेधैः कृष्णसाधात् । अपो ददतीति अब्दाः । चकारः पादपूरणार्थः ।।
५८-अधि-ज्य-चापः स्थिर-बाहु-मुष्टि
रुदश्चिताऽक्षोऽञ्चित-दक्षिणोरुः ॥ तान् लक्ष्मणः सन्नत-वाम-जङ्घो
जघान शुद्धेषुर-मन्द-कर्षी. ॥ ३१॥ अधीत्यादि-तान् क्षपाटान् गगनस्थान् लक्ष्मणो जघान हतवान् । की. दृशः । अधिज्यचापः । अध्यारूढा उत्कलिता ज्या गुणो यस्य चापस्य तदधि. ज्यम् । प्रादिभ्यो धातुजस्येति समासः । अधिज्यं चापं यस्य लक्ष्मणस्य । स्थिरो निश्चलो बाहुर्मुष्टिश्च यस्य । उदञ्चिते उरिक्षप्ते अक्षिणी येन स उदञ्चिताक्षः । आका. शस्थापितदृष्टिरित्यर्थः । अञ्चितः सङ्कोदितो दक्षिणोरुन सोऽञ्चितदक्षिणोरुः । अजेः पूजायामितीटोऽनुत्पनत्वात् ण्यन्तस्य रूपम् । न चात्र पूजा गम्यते किन्तु गतिविशेष एव । अनुषङ्गलोपोऽपि न भवति णिलोपस्य स्थानिवद्भावात् । समन्तात् नता वामजङ्घा यस्य स समतवामजचः । शुद्धेषुः निशितबाणः । अमन्दमत्यन्तं ऋष्टुं शीलमस्यासावमन्दकर्षी । कर्णान्ताकृष्टचाप इत्यर्थः ।
५९-गाधेय-दिष्टं विरसं रसन्तं
रामो ऽपि माया-चणमस्त्र चुचुः॥ स्थास्नु रणे स्मेर-मुखो जगाद
मारीचमुच्चैर् वचनं महाऽर्थम् ॥ ३२ ॥ १-१११८। स्थास्नुः स्थिरन्तरः स्थेयान् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com