________________
३२ भट्टि काव्ये--प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
तपो-मरुद्भिर् भवतां शराऽग्निः
संधुभ्यतां नोऽरि-समिन्धनेषु. ॥२८॥ तानित्यादि-अथैतस्मिन् प्रस्तावे राघवोऽपि रघुसुतः तान्मुनीन् प्रत्यवादीत् । २२६७। वद-ब्रज-७।२।३।' इत्यादिना वृद्धिः । यथेप्सितं यथाभिमतम् । आमोतेः २६१९। आप-ज्ञप्यधामीत् ७४।५५।' इतीत्त्वम् अभ्यासलोपश्च । सन्नन्तात्कर्मणि निष्ठा । धर्मादनपेतं धर्म्यम् यागादि कर्म । प्रस्तुत प्रारभध्वम् । प्रपूर्वः स्तौतिः प्रारम्भे वर्तते । तस्मानिमन्त्रणे नियोगकरणे लोट् । थस्य तः । शपो लुक् । तपांसि मरुत इव तपोमरद्भिः । भवतां तपोमरुदिनोंऽस्माकम् । '४०५। बहुवचनस्य वस्-नसौ ॥१॥२१॥' इति नसादेशः । शराग्निः शरोऽग्निरिव । संधुक्ष्यतां दीप्यताम् । '६४४। धुक्ष, धिक्ष, सन्दीपन-केदन-जीवनेषु ।' तस्मास्कर्मणि लोट् । भरिसमिन्धनेषु अरिकाष्ठेषु । समिध्यते एमिरिति समिन्धनानि । करणे ल्युट । अरयः समिन्धनानीव ॥
५६-प्रतुष्टुवुः कर्म ततः प्रक्लुप्तस्
ते यज्ञियैर् द्रव्य-गणैर् यथावत् , ॥ दक्षिण्य-दिष्टं कृतमाविजीनस्
तद् यातुधानैश चिचिते प्रसर्पत्. ॥ २९ ॥ प्रतुष्टुवुरित्यादि-ततो रामवचनादनन्तरं तपोधनाः कर्म यागक्रियां प्रतुष्टुवुः । यथावत् यथाविधि प्रारब्धवन्तः । यज्ञियैः यज्ञकर्माहेः द्रव्यगणैः प्रक्लसैः मिलितैः । '२३५०। कृपो रो लः ।।२।१८।' दक्षिणामहन्तीति दक्षिण्याः महामुनयः १७३३ । कडङ्कर-दक्षिणाच्छ च ।५।११६९।' इति चकाराद्यत् । तैर्दिष्टमुक्तम् । कृतमाविंजीनैः ऋत्विकर्माहेरनुष्ठितम् । ऋत्विजश्व ब्रह्मादयः षोडश पठिताः । तच्च कर्म प्रसर्पत् वृद्धिं गच्छत् । यातुधानै राक्षसैः चिचिते ज्ञातम् । '३९ । चिती संज्ञाने' इत्यस्मात् कर्मणि लिद । यज्ञियैराविजीनैरिति १७३५॥ यज्ञविंग्भ्यां घखनौ ।५।१७।' इति तत्कर्माहतीति ॥
५७-आपिङ्ग-रूक्षोर्ध्व-शिरस्य-बालैः
शिराल-जबैर् गिरि-कूट-दनैः॥
१-पद्येऽस्मिन् रूपकाऽलंकारः । तलक्षणं का० प्र० भ० मम्मटः–'तद् रूपकममेदो य उपमानोपमेययोः ॥' इति । यथा-'एष मनः स्वैर-पशुर् धावति पर कनक कामिनीनिकटम् , ॥ तस्माद् विवेक-पाशैः कण्ठे वैराग्य काष्ठ-माबध्यम्. ॥' किं वा-'दुष्यन्तसम-पद्मं सा स्त्री श्रीः कण्व-भानु-शिष्य करैः । नीता स-सुत-सुगन्धा सद्-धर्म-नयाऽम्बुपूर्ण-पुर-सरसि ॥' स्वकृतसंस्कृत भाषान्तर-पद्य-मालायाम् । २–१४३४। रूक्षस् त्व-प्रेम्ण्य-चिकणे ।' इति ना० अ० । '२०५६। रूक्ष पारुष्ये ।' इति धा० पा० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com