________________
तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
२९
ददौ वधाय क्षणदाचराणां
मुनिः श्रेयसि जागरूकः ॥ २२ ॥ आयोधन इत्यादि-स मुनिः तस्मै रामायास्त्रजातम्, अस्त्रसमूहं ददौ दत्तवान् । ददातेलिट् । णल '१२३७१॥ आत औ णलः ॥७॥१॥३४।' आयुध्यन्ते अस्मिन्निति आयोधनं संग्रामः । भधिकरणे ल्युट् । तत्र स्थायुकं स्थितिकरणशी. सम् जयावहत्वात् । '३१३४॥ लष-पत-३।२।१५।' इत्यादिना उकञ् । भातो यक् । अत एवामोघम् अवन्ध्यम् । अवृथामोक्षत्वात् । अभ्यर्णो निकटो महाहवो यस्य तस्मै । अभिपूर्वादर्देनिष्ठायाम् , '३०६५। अभेश्वाविदूर्ये ।७।२।२५।' इतीदप्रतिषेधः । '३०१६। र-दा-भ्याम्-1८।२।४२।' इति नत्वम् । अभ्यर्णः । आहव इति माहूयन्ते अस्मिन्युद्धायेति ह्वयतेरापर्वात् '३२५०। भाङि युद्धे १३।३।७३।' इति सम्प्रसारणम् । अप्प्रत्ययः । गुणावादेशौ । वधाय क्षणदाचरा. णामिति क्षणदा रात्रिः तत्र चरन्तीति २९३०। चरेष्टः ३।२।१६।' तत्र हि महाहवे रामो राक्षसान् हनिष्यतीति । '३२५३। हनश्च वधः ।३।३७६।' इति वधादेशः । कृत्प्रयोगे क्षणदाचराणामिति कर्मणि षष्ठी । श्रेयसि जागरूकः तस्कल्याणे सावधानः जागर्तेरूकः ॥
५०-तं विप्र-दर्श कृत-घात-यत्ना
यान्तं वने रात्रि-चरी ढुंढौके, ॥ जिघांसु-वेदं धृत-भासुराऽस्त्रस्
तां ताडकाऽऽख्यां निजघान रामः ॥२३॥ तमित्यादि-विद्यामस्त्रजातं चादाय यज्ञकर्मणि विघ्नोपशमनार्थ वने यान्तं रामम् रात्रिचरी राक्षसी ताडकाभिधाना डुढौके ढौकते स्म । ढौकतरात्मनेपदिनो लिटि रूपम् । तां च रामो निजघान निहतवान् । विप्रदर्श कृतघातयत्ना विप्रान् ब्राह्मणान् दृष्ट्वा कृतमारणाभियोगा रात्रिचरी । रामोऽपि जिघांसुवेदं धृतभासुरास्त्रः । जिघांसुं विदित्वा धृतं भासुरं भासनशीलम् अस्त्रं येनेति बहुब्रीहिः । विप्रदर्श जिघांसुवेदमिति । '३३५०। कर्मणि दृशि-विदोः साकल्ये ३६४१२९।' इति णमुल ॥
५१-अर्धा ऽऽलुलोके हुत-धूम-केतु
शिखाऽअन-स्निग्ध-समृद्ध-शाखम् ॥ तपोवनं प्राध्ययनाऽभिभूत
समुच्चरच्-चारु-पतत्रि-शिञ्जम्. ॥ २४ ॥ अथेत्यादि-अथासौ रामो राक्षसी हत्वा तपोवनम् आलुलोके दृष्टवान् ।
१-१०१। ढौ फू गत्यर्थः।' २-लोत दर्शने।' Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com