________________
३० भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, कथम्भूतम् । हुतधूमकेतुशिखाञ्जनस्निग्धसमृद्धशाखम् । हुतश्चासौ धूमकेतुरग्निश्च हुतधूमकेतुः । तस्य शिखाञ्जनेन स्निग्धाः समृद्धाश्च फलादिना शाखा यस्य तपोवनस्य । प्राध्ययनेन वेदपाठेन अभिभूता तिरस्कृता समुच्चरन्ती चार्वी शोभना पतत्रिणां पक्षिणां शिक्षा ध्वनियंत्र । १०९८ शिजि भव्यक्के शब्दे।' शिञ्जनं शिक्षा '३२८०। गुरोश्च हलः ।३।३।१०३।' इत्याकारप्रत्ययः। पतन्तं त्रायन्त इति पतत्राणि पक्षाः । २९१५। आतोऽनुपसर्गे कः ।३।२।३।। तानि येषां सन्तीति पतत्रिणः । पतङ्गशिक्षमिति पाठान्तरम् ॥
५२-क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा,
विशश्वसे पक्षि-गणैः समन्तात्, ॥ नन्नम्यमानाः फल-दित्सयव
चकांशिरे तत्र लता विलोलाः ॥ २५ ॥ क्षुद्रानित्यादि-तत्र तस्मिंस्तपोवने तपोधनानां मित्रभावात् क्षुद्रानि. तरानपि हरिणान्मृगेन्द्राः सिंहाः न जक्षुः न बाधितवन्तः । क्षुद्यन्त इति क्षुद्राः । स्फायितञ्चीत्यादिना औणादिको रक् । '२४२४। लिव्यन्यतरस्याम् ।२।४।४०।' इति अदेर्पस्ट। २३६३ । गम-हन-1६४।९।' इत्यादिनोपधालोपः १२१॥ खरि च ।।४।५५।' इति चर्वम् । २४१० शासि-वसि-८३०६०।' इत्यादिना षत्वम् । पक्षिगणैः समन्तात्सर्वत्र विरुद्धैरपि काकोलूकादिभिः परस्परं विशश्वसे विश्वस्तम् । भावे लिट् । लताश्च विलोलाश्चपलाश्चकाशिरे शोभन्ते स्म । फलदित्सयेव मुनिभ्यः फलं दातुमिच्छयेव नन्नम्यमानाः अत्यर्थं नमन्त्यः । दातुमिच्छा दित्सा । ददातेः सन् । '२६५३। सनि मी-मा-७४।५४।' इत्यादिना इस् २६२०। अत्र लोपोऽभ्यासस्य ।।४।५८।' इति अभ्यासलोपश्च । '२३४२। सः सि-७४४०४९।' इत्यादिना सकारस्य तकारः । '३२७९। अ प्रत्ययात् ।३।३।१०२।' इत्यकारप्रत्ययः। फलानां दित्सेति कर्मणि षष्ठी विधाय कृद्योगे समासः । नबम्यमाना इति नमेयंङि २६४३॥ नुगतोऽनुनासिक-७४।८५' इति नुक् । यङन्ताच्छानच् । आने मुक् ॥
५३-अपूपुजन् विष्टर-पाद्य-ौल्यै
रातिथ्य-निष्णा वन-वासि-मुख्याः, ॥ प्रत्यग्रहीष्टां मधुपर्क-मिनं तावासनाऽऽदि क्षिति-पाल-पुत्रौ. ॥ २६ ॥
१-६९४। कारों दीप्तौ ।' २–१३७८। विष्टरो विटपी दर्भ-मुष्टिः पीठाऽऽद्यमासनम् । ३-७३८) पाद्यं पादाय वारिणि ।' ४–'६९९। माल्यं मालास्रजौ मूनि ।' Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com