________________
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- २७ सामन्दस्य रूढत्वात् । लीनाः कलहंसमालाः । तथा संसकफेणेषु च सैकतेषु पुलिनेषु लीनाः सिकता येषु विद्यन्त इति । १९१३॥ देशे लुबिलचौ च 1५।१११०५।' इति चकारादण् । कुन्दावदाताः कुन्दमिवावदाताः शुक्लाः । ७३४॥ उपमानानि-२।१।२२।' इत्यादिना समासः । प्रतीयिरे ज्ञाताः । तेन रामेणेति विभक्तिविपरिणामेन सम्बन्धः । कर्मणि लिद । २४५५। इणो यण् ।६।४।०१' । २२४३। द्विर्वचनेऽचि ।।१०५९।' इति स्थानिवद्भावाविर्वचनम् । श्रोत्रसुखैमधुरैनिनादैः करणभूतैः । ३२४१ । नौ गद-३।३।६।' इत्यादिना घम् ॥ शरद्वर्णनमुपसंहरनाह-- ४६-न तज् जलं, यन् न सु-चारु-पङ्कजं,
न पङ्कजं तद् , यद-लीन-षट्-पदम् , ॥ न षट्-पदोऽसौ, न जुगुञ्ज यः कलं;
न गुञ्जितं तन्, न जहार यन् मनः ॥१९॥ न तजलमित्यादि ॥ किम्बहुनोक्तेन सर्वथा न तजलं यत् सुचारुपङ्कजं न बभूव । पङ्कजमपि यदलीनषट्पदं तदपि न । असौ षट्पदोऽपि तथाविधी नाभूत् । यः कलं मधुरं न जुगुञ्ज न गुञ्जितवान् । '२१२। गुजि अव्यक्ते शब्दे' । '२२६२। इदितो नुम् धातोः १७१।५।' इति नुमि लिटि रूपम् । गुञ्जितमपि तत् नैवासीत् । यन्मनो न जहार न हृतवत् रामस्य लोकस्य वा ॥
४७-तं यायजूकाः सह भिक्षु-मुख्यैस्
तपः-कृशाः शान्त्युदकुम्भ-हस्ताः, ॥ यायावराः पुष्प-फलेन चा ऽन्ये प्राणचुरा जगदुर्चनीयम्. ॥ २० ॥
१-पद्येऽस्मिन्नेकावल्यलङ्कारः । तलक्षणं काव्यप्रकाशे भट्ट-मम्मट:-'स्थाप्यतेऽपोह्यते वाऽपि यथा-पूर्व परं परम् ॥ विशेषणतया वस्तु यत्र, सैकावली द्विधाः ॥” इति । स्थापने यथा-'पुराणि यस्यां स-वराऽङ्गनानि,वराऽङ्गनारूप-पुरस्कृता-झ्यः, ॥ रूपं समुन्मीलित-सद् विलासमस्त्रं विलासाः कुसुमा-ऽऽयुधस्य ॥' किंवा 'स पण्डितो, यः स्वहिताऽर्थ-दर्शी; हितं च तदू, यत्र पराऽनपक्रिया ॥ परे च ते, ये श्रित-साधु-भावाः; सा साधुता, यत्र चकारत्युमाधवः.।' अपोहने यथा-'निरत्ययं साम न दान चर्जितं; न भूरि दानं विरहय्य सत्-क्रियाम् ।। प्रवर्तते तस्य विशेष-शालिनी; गुणाऽनुरोधेन विना न सत्-क्रिया. ॥' इति श्री-भारवि-किरातार्जुनीये -२॥१२॥ किं वा 'नाsर्यः स, यो न स्वहितं, समीक्षते; न तद् हितं, यत् न पराऽनुतोषगम् ॥ न ते परे, यैर् नहि साधुता श्रिता; न साधुता सा, नहि यत्र मा-धवः ॥ २-७१४॥ इज्या शीलो यायजूकः । ३-७४९। भिक्षुः परिबाट कर्मन्दी पाराशर्यपि मस्करी ॥'
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com