________________
२६ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयो वर्गः,
स्त्रीभूषणमित्यादि-गोपाङ्गनानां चेष्टितं गमनागमनादि । अप्रगल्भं लज्जावत् । तच्च स्त्रीविभूषणं स्त्रीणामलङ्कारः । तथा वीक्षितानि विलोकितानि अवकाण्यपि कटाक्षादिरहितान्यपि चारूणि शोभनानि । स्वभावान् स्वाभिप्रायान् ऋजून् अकुटिलान् विश्वासकृतो विश्वासस्य जनकान् विलोक्य मुमुदे हृष्टवान् । स रामः । लिटोऽपित्वात्कित्त्वे गुणाभावः । कार्याणां दर्शनात् स्वभावानां दर्शनमित्युक्तम् ॥
४३-विवृत्त-पाच रुचिराऽङ्गहार
समुदहच्-चारु-नितम्ब-रम्यम् ॥ आमन्द्र-मन्थ-ध्वनि-दत्त-तालं
गोपाऽङ्गना-नृत्यमनन्दयत् तम्. ॥ १६ ॥ विवृत्तेत्यादिः-गोपाङ्गनानां दधिमन्थनाय यत् स्थानं कृतं तत् नृत्यमिवेति गोपाङ्गनानृत्यं कर्तृ तं रामम् अनन्दयत् सन्तोषितवत् । नन्देय॑न्तस्य लडि रूपम् । विवृत्ते तिर्यक्रचलिते पार्श्वे यन्त्र नृत्ये । रुचिरः शोभनोऽङ्गहारोऽङ्गविक्षेपो यत्र । समुदहता तिर्यक् समुद्गच्छता चारुनितम्बेन कटिभागेन रम्यं मनोहरम् । आमन्द्र ईषद्गम्भीरो यो मन्थकृतो ध्वनिः तेन दत्तस्तालो यत्र ॥
४४-विचित्रमुच्चैः प्लवमानमारात्
कुतूहलं त्रस्नु ततान तस्य ॥ मेघाऽत्ययोपात्त-वनोपशोभं
कदम्बकं वातमजं मृगाणाम् ॥ १७ ॥ विचित्रमित्यादि । मृगाणां कदम्बकं वृन्दं तस्य रामस्य कौतूहलं ततान विस्तृतवत् । विचित्रम् कृष्णश्वेतत्वात् । उच्चैः प्लवमानम् अर्व जिहानम् । आरात् समीपे त्रस्नु ब्रसनशीलम् । '३१२०। त्रसि-गृथि-३।२।१४०।' इत्यादिना क्रुः । मेघात्ययेन मेघापगमेन उपात्तवनोपशोभम् । उपात्तं गृहीतं वनम् उपशोभा च येनेति व्यधिकरणबहुव्रीहिः । वातमजति वातमजम् वातामिमुखं गच्छतीत्यर्थः । 'वात-शुनी-तिल-शर्धेषु-' इति खश । २९४२। अरुषि-६।३।६।' इति मुम् ॥
४५-सितारविन्द-प्रचयेषु च लीनाः
संसक्त-फेणेषु च सैकतेषु ॥ कुन्दाऽवदाताः कलहंस-मालाः
प्रतीयिरे श्रोत्र-सुखैर् निनादैः ॥ १८ ॥ सितेत्यादि-सितारविन्दानां प्रचयेषु समूहेषु । ३२३॥ एरच ॥२३॥५६॥' ॥३२१४॥ 'सचे चानौत्तराधर्ये ३।३।१२।' इति घनको न भवतः प्राणिषु Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com