________________
तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- २५ ४०-दिग्-व्यापिनीर् लोचन-लोभनीया
मृजाऽन्वयाः स्नेहमिव स्रवन्तीः॥ ऋज्वाऽऽयताः शस्य-विशेष-पतीस्
तुतोष पश्यन् वितृणाऽन्तरालाः ॥ १३ ॥ दिग्व्यापीत्यादि-शस्य विशेषाणां शाल्यादीनां पसीः पश्यंस्तुतोष तुष्टवान्। दिग्व्यापिनीः सर्वदिग्व्यापनशीलाः । लोभयन्तीति लोभनीयाः । बहुवचना. स्कर्तर्यनीयः । लोचनानां लोभनीया इति षष्ठीसमासः । मार्जनं मृजा शुद्धिः । '३२८१। विद्भिदादिभ्योऽङ् ।३।३।१०४।' तया, अन्वयोऽनुगमो यासांम् । शुद्ध्यनुगता इत्यर्थः । ततः स्नेहमिव स्रवन्तीः । ऋजवश्च ता आयताश्च वितृणान्तरालाः उत्पाटितानि तृणानि अन्तराले मध्यभागे यासां ताः ॥
४१-वियोग-दुःखाऽनुभवाऽनभिज्ञैः
काले नृपांऽशं विहितं ददद्भिः॥ आहार्य-शोभा-रहितैरमायै
रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान् ॥ १४ ॥ वियोगेत्यादि-पुम्भिः गोपैः प्रचितान् व्याप्तान् गोष्ठान् गावस्तिष्ठन्ति येष्विति '२९१६। सुपि स्थः ।३।२।४।' इति कः । '२९१८। अम्बाम्ब. ।।३।९७।' इत्यादिना मूर्धन्यः । तान् स राम ऐक्षिष्ट दृष्टवान् । अनुदात्तेत्त्वातङ् । इट् । वियोगदुःखस्य योऽनुभवः अनुभवनं तस्यानभिज्ञैः तेषां पुत्रदारैः सहैव सर्वत्र गमनात् एतावता कालेन एतावद्देयमिति विहितं कृतम् । दधातेर्हिः । नृपाशं करं ददद्भिः । आहार्या कटकादिभिः आहरणीया या शोभा दीप्तिः तया रहितैः । अमायैः ऋजुभिः । आहार्येति २०७२। *-हलोपर्यत् ३॥२४॥' शोभयतीति शोभा पचाद्यच् । '३२८४॥ ण्यासश्रन्थो युच् ।३।३।१०७।' इति युच् न भवति, तस्य स्त्रीलिङ्गे भावे अकर्तरि च कारके विधानात् । नन्द्यादिपाठात् ल्युन भवति तस्य '२८३०। वासरूपोऽस्त्रियाम् ।।१।९।' इति विकल्पितत्वात् । अथवा शोभनं शोभा स्त्रीलिङ्गे भावे घन् । '२८४१॥ कृत्य-ल्युटो बहुलम् ।३।३।१३॥' इति बहुलवचनादन्येऽपि कृतः प्राप्तमपि स्वाभिधेयं व्यभिचरन्ति ॥
४२-स्त्री-भूषणं चेष्टितम-प्रगल्भं
चारूण्य-वक्राण्यपि वीक्षितानि ॥ ऋजूश्च विश्वास-कृतः स्वभावान्
गोपाऽङ्गनानां मुमुदे विलोक्य. ॥ १५ ॥
भ. का०३ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com