________________
२२ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
किमिति निरस्यति-यतो मानिनी मानवती अन्यसङ्गमम् अन्यया सह संगमं न संसहते । आत्मसङ्गादन्यसङ्गमं न सहते न क्षमते ॥
३४-दत्ताऽवधानं मधु-लेहि-गीतौ
प्रशान्त-चेष्टं हरिणं जिघांसुः ॥ आकर्णयनुत्सुक-हंस-नादान्
लक्ष्ये समाधि न दधे मृगावित्. ॥ ७ ॥ दत्तेत्यादि-मधुलेहिगीताविति मधु लेढुं शीलमेषामिति णिनिः । मधुलेहगीताविति पाठान्तरं । तत्र लिहन्तीति लेहाः पचाद्यच् । मधुनो लेहा इति षष्ठीसमासः । मधु लिहन्तीति वा कर्मण्यण् । दत्तावधानं दत्तमानसं हरिणं प्रशान्तचेष्टं जिघांसुः हन्तुमिच्छुरपि मृगावित् व्याधः । मृगान्विध्यतीति विप् । '२४१२। ग्रहि-ज्या-६॥१६॥' इत्यादिना सम्प्रसारणम् । १०३७॥ नहि वृति-।६।३।११६॥' इत्यादिना दीर्घः । लक्ष्ये वध्ये समाधि चित्तैकाग्रतां न दधे न धारितवान् । जित्त्वात्तङ् । लिटः कित्त्वे आतो लोपः । उत्सुकानां हंसानां नादानाकर्णयन् शृण्वन् तत्राभिरतचित्तकत्वात् । वर्तमानकालो भूतेनाभिसम्बध्यमानः साधुः । २८२४। धातु-सम्बन्धे प्रत्ययाः ।३।४।।' इति च । आक
यन्निति 'प्रातिपदिकाद्धात्वर्थे बहुलम्' इति णिच् । '३१०३। लक्षण-हेत्वोः।३।२।१२६।' इति शतृप्रत्ययः॥
३५-गिरेर नितम्बे मरुता विभिन्नं
तोयाऽवशेषेण हिमाऽऽभमभ्रम् ॥ सरिन्-मुखाऽभ्युच्चयमादधानं
शैलाऽधिपस्याऽनुचकार लक्ष्मीम्. ॥ ८॥ गिरेरित्यादि-गिरेः कस्यचित् नितम्बे मध्यभागे स्थितमभं कर्तृ 'मरुता विभिन्नं विह्वलीकृतं तोयावशेषेण पयसोऽवशिष्टतया हिमाभं हिमसदृशं सरिन्मुखानां गिरिनदीनिर्गमाणामभ्युच्चयं वृद्धिम् आदधानं कुर्वाणं शैलाधिपस्य हिमवतः लक्ष्मी शोभामनुचकार अनुकृतवत् ॥
३६-गर्जन् हेरिः साऽम्भसि शैल-कुञ्ज
प्रतिध्वनीनात्म-कृतान् निशम्य ॥
१-९४। अभं मेघो वारि-वाहः स्तनयित्नुर् बलाहकः । धारा-धरो जल-धरस् तडित्वान् वारिदोऽम्बु-भृत् ॥' इति ना० अ०। २–१३८३॥ यमाऽनिलेन्द्र-चन्द्रार्कविष्णु-सिंहां शु. वाजिषु । शुकाऽहि-कपि-भेकेषु हरिर् ना, कपिले त्रिषु ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com