________________
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- २१
उपारुरोदेव नदत्-पतङ्गः
कुमुद्वतीं तीर-तरुर् दिनाऽऽदौ. ॥ ४ ॥ निशेत्यादि-निशायां तुषारैः हिमैः । नयनाम्बुकल्पैः अश्रुतुल्यैः । नयनानुकारिषु पत्रेषु स्थितत्वात् । तैर्हेतुभूतैः पत्रान्तपर्यागलदच्छबिन्दुः । पत्रान्तात्पर्यागलन्तः अच्छास्तुषारबिन्दवो यस्य तीरतरोः । स दिनादौ दि. नारम्भ कुमुदतीमुपारुरोदेव आक्रन्दितवानिव भाति । शशिवियोगादीदृशी वं भूतासीति । रोदन क्रियया आंक्रन्दनविशिष्टया कुमुदत्या ईप्सिततमत्वात् रुदिः सकर्मकः । तदाक्रन्दनं योजयन्नाह-नदत्पतङ्ग इति । कूजत्पक्षीत्यर्थः । 'पतेरङ्गच् पक्षिणि' इत्यौणादिकः । कुमुदती १३०६। कुमुदनड।४।२।८७।' इत्यादिना इमतुप् । '१८९८। झयः ।।२।१०।' इति वत्वम् । उगित्त्वात् ङीप् ॥
३२-वनानि तोयानि च नेत्र-कल्पैः
पुष्पैः सरोजैश् च निलीन-भृङ्गः॥ परस्परां विस्मयन्वन्ति लक्ष्मी
मालोकयाञ्चक्रुरिवाऽऽदरेण. ॥ ५॥ वनानीत्यादि-वनानि पुष्पैनिलीनभृङ्गैः स्थितभ्रमरैः । लीयतेः '३०१९। खादय ओदितः ।।२।४५।' इति निष्ठानत्वम् । नेत्रकल्पैः नेत्रतुल्यैः । तोयानि च सरोजैः निलीनभृङ्गैर्नेबकल्पैः । विस्मयवन्ति जातविस्मयानि । परस्परामन्योन्यस्य लक्ष्मी शोभाम् आलोकयाञ्चकुरिव । आदरेण तात्पर्येण ॥
३३-प्रभात-वाताहऽऽति-कम्पिताऽऽकृतिः
कुमुद्वती-रेणु-पिशङ्ग-विग्रहम् ॥ निरास भृङ्गं कुपितेव पद्मिनी,
नै मानिनी संसहते ऽन्य-सङ्गमम् ॥ ६॥ प्रभातेत्यादि-प्रभाते यो वातस्तस्याघातेन कम्पिता चालिता भाकृतिराकारो यस्याः पद्मिन्याः सा भृङ्गं निरास निरस्तवती । कुमुदतीरेणुना पिशङ्गः कपिशः विग्रहो यस्य भृङ्गस्य । कुपितेव यथा अन्यया स्त्रिया सहोषितं तदङ्गसंक्रान्तपरिमलकण्ठमालमात्मदयितं काचित् कुपिता निरस्यति तद्वत् । सा
१-१२२५। पतङ्गौ पक्षि-सूयौँ च।' इति ना० अ० । २–'अत्राऽर्थान्तरन्यासाऽलंकारः । तलक्षणं कुवलयानन्दकारिकायाम्–'उक्तिरर्थान्तरन्यासः स्यात् सामान्य-विशेषयोः ॥ हनूमान ब्धिमतरद्, दुष्करं किं महाऽऽत्मनाम् ॥' इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com