________________
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- २३
क्रमं बबन्ध क्रमितुं स-कोपः प्रतर्कयन्नन्य-मृगेन्द्र-नादान्. ॥९॥
गर्जनित्यादि-हरिः सिंहः गर्नन् शब्दं कुर्वन् । क शैलनिकुञ्ज गिरे। गहने । साम्भसि ससलिले । एवंविधे प्रदेशे प्रतिध्वनीन् प्रतिशब्दान् आत्मकृतान् निशम्य श्रुत्वा सरोषः सकोपः क्रमं बबन्ध ऋमितुमुत्पतितुं यत् सामर्थ्य तञ्चकारेत्यर्थः । अनेकार्थत्वाद्धातूनां बन्धिरत्र करणे वर्तते । किमिति प्रतर्कयन्नन्यमृगेन्द्रनादान् ॥
इदानीं रामं व्यापारेण वर्णयन्नाह३७-अदृक्षता ऽम्भांसि नवोत्पलानि,
रुतानि चा ऽश्रोषत षट्-पैदानाम् , ॥ आघ्रायि वान् गन्ध-वहः सु-गन्धस् तेनाऽरविन्द-व्यतिषङ्ग-वांश् च. ॥१०॥
अदृक्षतेत्यादि-नवान्युत्पलानि येष्वम्भस्सु जलेषु तानि रामेणादृक्षत दृष्टानि । दृशेः कर्मणि लुङ् । '२३३६। शल इगुपधा-३३१॥४५॥' इति प्रासस्य क्सादेशस्य '२४०७। न दृशः-३।१।४७।' इति प्रतिषेधात् '२२६९। इरितो वां-३।१०५७।' इति सिजेव भवति । तेन विकल्पेनाङो विधीयमानत्वात् '२३००। लिसिचा-1१।२।११।' इति कित्त्वे गुणाभावः ॥ षट्पदानां रुतानि अश्रोषत श्रुतानि । शृणोतेः कर्मणि लुङ् ॥ वहतीति वहः पचायच् । गन्धस्य वह इति कृद्योगे षष्ठी समस्यते । गन्धवहो वायुराधायि आघ्रातः । कर्मणि लुङ् । अरविन्देन पझेन व्यतिषङ्गः संपर्कः सोऽस्ति यस्य वायोः सः । वातीति वान् । वातेः शतृप्रत्ययः। सुगन्धः । शोभनो गन्धो यस्य सः । अरविन्दव्यतिषङ्गत्वात् ४७४॥ गन्धस्येदुत्-पूति-सु-सुरभिभ्यः। ५११३५।' इतीकारः समासान्तो न भवति । गन्धस्यत्वे तदेकान्तग्रहणमिति वचनात् सुगन्ध आपणिक इति यथा ॥
१-१९८। कोलाहलः कलकलस् तिरश्चां वाशितं रुतम्। २-५४९। मधुव्रतो मधु-करो मधु-लिण-मधु-पाऽलिनः । द्वि-रेफ-पुष्प-लिङ्-भृङ्ग-षट्-पद-भ्रमराऽलयः ॥' ३-६९ । श्वसनः स्पर्शनो वायुर् मातरि-श्वा सदा-गतिः। पृषदश्वो गन्धन्वहो गन्ध-वाहाऽनिलाऽऽशु-गाः ।। इति सर्वत्र ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com