________________
तथा लक्ष्य-रूपे कथानके श्री-राम-संभवो नाम प्रथमः सर्गः- १७ २४-आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्र
प्रीतः प्रतस्थे पुनराश्रमाय, ॥ तं पृष्ठ-तः प्रष्ठमियाय नम्रो
हिंस्रेषु-दीप्ताऽऽप्त-धनुः कुमारः. ॥ आशीभिरित्यादि-रामगमनस्यानुज्ञातत्वात् प्रीतो मुनिः क्षितीन्द्र राजानमाशीर्भिरभ्यर्च्य पूजयित्वा । आङः शासेः क्विप्युपसंख्यानात् उपधाया इत्वम् । प्रतस्थे पुनराश्रमाय-भाश्रमं पुनः प्रस्थितवान् । तिष्ठतेः '२६८९। समव-1१।३।२२।' इत्यादिना लिटि तङ् ॥ प्रष्ठम् अग्रयायिनं तं । २९१७। प्रष्ठोऽग्रगामिनि ।।३।९।' इति षत्वम् । पृष्ठतः पश्चात् इयाय कुमारः । इणो णलि वृद्धिरायादेशः । '२२४३। द्विवंचनेऽचि ।१।१०५९।' इति स्थानिवद्भावाविर्वचनमिकारस्य । '२२९०। अभ्यासस्याऽसवणे ।६।१७' इतीयङ् । नम्रोऽनुकूलः । हिंसनशीला इषवः शराः. हिंस्रषवः । आतमविसंवादि यद्धनुस्तत्। हिंस्रेषु दीप्तमाप्तं धनुर्यस्य कुमारस्येति विग्रहः । अत्र ८७०। धनुपश्च ।५।४।१३२।' इत्यनङ् न भवति 'समासान्तविधिरनित्यः' इति । दीप्रा. स्वधनुरिति पाठान्तरम् । दीप्रमत्रं धृष्टतया यस्य धनुषस्तद्दीप्रास्त्रं धनुर्यस्येति सः। कस्मिन्विषये। हिंस्रेषु नान्येषु । नम्रादयो ३१४७। नमिकम्पि-३।२।१६७।' इत्यादिना रप्रत्ययान्ताः॥
२५-प्रयास्यतः पुण्य-वैनाय जिष्णो
रामस्य रोचिष्णु-मुखस्य धृष्णुः॥ त्रै-मातुरः कृत्स्न-जिताऽस्त्र-शस्त्रः
सध्य तः श्रेयसि लक्ष्मणोऽभूत्. ॥ प्रयास्यत इत्यादि-प्रयास्यतो गमिष्यतो रामस्य लक्ष्मणः सध्यङ् अभूत् सहायीभूतः। 'सहाचति' इति क्विन् अनुषङ्गलोपः३६॥ उगिदचाम्-1७11७०।' इति नुम् । हल्ङ्यादि-संयोगान्तलोपौ ३७७॥ विन्प्रत्ययस्य-1८।२।६२।' इति कुत्वं नकारस्य डकारः । '४२२॥ सहस्य सध्रिः ।।३।९५।' इति सध्यादेशः । पुण्यवनाय पुण्यहेतुत्वात्पुण्यं वनम् । गत्यर्थात् कर्मणि चतुर्थी । जिष्णोर्जयशीलस्य ३११९। ग्ला-जि-स्थश्च-३।२।१३९।' इति रस्तुः । रोचिष्णु रोचन.
१-८३७। पुरोगाऽग्रेसर-प्रष्ठाऽग्रतः-सर-पुरस्-सराः।' इति ना० अ०। २-५८५। गत्यर्थकर्मणि द्वितीया चतुर्यों चेष्टायामनध्वनि ।२।३।१२। अध्वभिन्ने गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । इति वै० भ० ।३-८४२। नेता जिष्णुश च जित्वरः । ४-६६५। विभ्राड् भ्राजिष्णु-रोचिष्णू,। ५-१०७०। धृष्टे धृष्णग् (ष्णुर) वियातश्च',।६-१०७९॥ यः सहाऽञ्चति सध्यङ सः' इति सर्वत्र ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com