________________
१८
भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे प्रथमो वर्गः,
-
शीलं मुखं यस्य रामस्य पितुराज्ञया तुष्टत्वात् । '३११६। अलंकृञ् । ३१२/१३६ | ' इत्यादिना इष्णुच् । धृष्णुः शत्रुविध्वंसने प्रगल्भः । '३१२० | त्रसि- गृधि - | ३ | ४ | १४० । ' इत्यादिना नुः । त्रैमातुरः तिसृणां मातृणामपत्यमिति तद्धितार्थविषये समासः । पश्चात् ' १११८ | मातुरुत्सङ्ख्या - 1४|१|११५ | ' इदिना भण् उत्वं च '१०८०। द्विगोर्लुगनपत्ये | ४|१|८८ |' इति लुक् न भवति । स हि पिण्डद्वयप्राशनात्ताभ्यां च जनितः अस्त्रं च शस्त्रं चेति द्वन्द्वः । कृत्स्नं समग्रं जितमधिगतमस्त्रशस्त्रं येनेति विग्रहः, रतः श्रेयसि कल्याणे । २०१०। प्रकृत्यैकाच् ।६।४।१६३।' । '२००९ | प्रशस्यस्य श्रः | ५ | ३ | ६० |' लक्ष्मी रित्यौणादिकः । लक्षेर्मुद ईप्रत्ययश्च । सा यस्य विद्यत इति लक्ष्मणः, लोमादिषु 'लक्ष्म्या अच्च' इति न प्रत्यय: अत्त्वं च ॥
२६ - इषु-मति रघु- सिंहे दन्दशूकाञ् जिघांसौ धनुररिभिर - सह्यं मुष्टि- पीडं दधाने ॥
व्रजति, पुर-तरुण्यो बद्ध - चित्राऽङ्गुलित्रे कथमपि गुरु-शोकान् मा रुदन् माङ्गलिक्यैः ॥
इषुमतीत्यादि - रघुसिंहे रामे रघुषु रघुवंशभवेषु सिंह इव शौर्यादि - योगात् । व्रजति सति । इषुमति सनिषङ्गे । प्रशंसायां मतुप् । तदुक्तं कौमुद्यां 'भूम - निन्दा - प्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति म. तुबादयः ॥' दन्दशूकान् हिंखान् । दंशे: ' २६३५। लुप सद-|३|१|२४|' इत्यादिना यङ् । 'जप-जभ -' इत्यादिना अभ्यासस्य नुक् । तदन्तात् '३१४६ | यज-जप- । ३।२।१६६ ।' इत्यादिना ऊकः । '२३०८ | भतो लोपः | ६ | ४|४८|' | ‘२६३१। यस्य हलः । ६ । ४ । ४९ |' जिवांसौ हन्तुमिच्छौ । ' २६१४ अज्झन।६।४।१६।' इति दीर्घः । '२४३०। अभ्यासाञ्च |७|३|५५ ।' इति कुत्वम् '३१४८ सनाशंस - ।३।२।१६८ ।' इति उः । '६२७| न लोक - | २|३|६९ | ' इति षष्ठीप्रतिषेधात् द्वितीयैव । धनुर्दधाने बिभ्राणे । अरिभिरसह्यं सोढुमशक्यम् । '२८४७। शकि- सहोश्च |३|||९९ |' इति यत् । मुष्टिपीडं मुष्टिना पीडयित्वा । मुष्टिशब्दे तृतीयान्त उपपदे '३३७०। सप्तम्यां चोपपीड - | ३ | ४|४९ | ' इति णमुल् । तत्र चकारेण तृतीयानुकर्षणात् । बद्धं चित्रमङ्गुलित्रं येन । अङ्गुलिं त्रायत इति कः । पुरे तरुण्यः पुरतरुण्यः । 'नञ्ञ्जजीक क्ख्युंस्तरुणतलुनानामुपसङ्ख्यानम्' इति ङीप् । यदि तद्वचोऽर्थवत् । नो चेद्गौरादिपाठात् ङीप् । राम्रो गत इति गुरुः शोको यासां ताः । कथमपि मा रुदन् न रुदितवत्यः । रुदेः '२२६९। इरितो वा | ३|१|५७ |' इति चलेरड् । यतो माङ्गलिक्यः मङ्गलप्रयोजनाः ।
१ – पद्येऽस्मिन्वृत्तं मालिनी | तलक्षणम् -'न-न-म-य-य-युतेयं, मालिनी भोगि ( ८ )लोकैः (७) ।' इति वृत्तरत्नाकरेऽतिशक्कर्थी जातौ ( १५ अक्ष० ) भट्टकेदारः ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com