________________
१६
भट्टिकाव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, २२ - घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात्, ॥ मा मां महाऽऽत्मन् परिभूरे-योग्ये न मद्-विधो न्यस्यति भारम॑ग्र्यम् ॥
घानीत्यादि - अनागतमर्थ ज्ञानेन समीक्ष्याह - महान्विपक्षो रावणः त्रैलोक्यविजयित्वात् । सोऽपि तेन रामेण घानिष्यते किमुतेतरे राक्षसाः । हन्तेः कर्मणि लुट् । '१७५७ । स्य - सिच् - १६।४।६२।' इत्यादिना चिण्वदिट् उपधावृद्धिः । '३५८ | हो हन्तेः | ७|३|५४ | ' इति कुत्वम् || पुरस्तादग्रतो यद्वणं युद्धं भावि परशुरामेण सार्धमिति भावः । तत्र येन स्थायिष्यते तेन घानिष्यत इति योज्यम् । अत्र तिष्ठतेर्भावे लृट् । चिण्वदिड्डा । '२७६१ | आतो युक् |७|३|३३|' ॥ हे महात्मन् । महासत्व मा मां परिभूर्मावज्ञासीः । किमेवं वदसीति । परिपूर्वो भवतिर्निराकरणे वर्तते ॥ मद्विध इति विधानं विधा प्रकार : '३२८३ । आतश्चोपसर्गे | ३ | ३|१०६ ।' इत्यङ् । विधा भेदः सादृश्यं च । इह सादृश्यं गृह्यते । मया विधा सादृश्यं यस्येति मद्विधः । ' १३७३ | प्रत्ययोत्तरपदयोश्च १७१२/९८ ' इति मदादेशः । मद्विधो मत्सदृशोऽन्यो न भारमध्यम् । '३४६२ । अग्राद्यत् | ४|४|११६ | ' अयोग्ये असमर्थे न्यस्यति निक्षिपति किमहं येनानागतं समीक्षितमिति भावः । योगाय प्रभवति योग्य: । '१७६६ | योगाद्यत् । ।५।१।१०२॥ ' ॥
२३- क्रुध्यन् कुलं धक्ष्यति विप्र - वह्निर्,
यास्यन् सुतस् तप्स्यति मां स-मन्युम्, ॥ इत्थं नृपः पूर्वम॑वालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य ॥
क्रुध्यन्नित्यादि - यद्यहं भूतरक्षणेऽधिकृतोऽस्य वचनं न कुर्या तदा क्रुध्यसन् । दिवादित्वात् श्यन् । विप्रो वह्निरिव । '७३५ । उपमितम् - २ १/५६ । ' इति समासः । धक्ष्यति कुलं भस्मसात्करिष्यति । दहेर्लट् '३२५| दादेः|८|२|३२|' इति घः । भष्भावः । चर्व्वम् । गकारस्य ककारः । ‘२११। इण्कोः | ८|३|५७ | ' इति षत्वम् ॥ यास्यन्गमिष्यन्सुतो मां समन्युं सशोकं तपस्यति सन्तापयिष्यति । तपेल्ट् ॥ इत्थमेवंप्रकारं नृपः पूर्वमादाववा - लुलोचेऽवलोकितवान् । अवाङ्पूर्वालोचेर्लिट् ॥ तत उत्तरकालं सुतस्य गमनमनुजज्ञे । अनुज्ञातं नृपेणेति विभक्तिविपरिणामेन तेनेति योज्यम् । कर्मणि लिट् । '१६०४ ज्ञा विवबोधने' इति परस्मैपदित्वात् । नचानुपूर्वादस्मादात्मनेपदं विहितम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com