________________
तथा लक्ष्य रूपे कथानके श्री राम संभवो नाम प्रथमः सर्गः -
अहंयुनाऽथ क्षिति-पः शुभंयुंरूचे वचस् तापस-कुञ्जरेण ॥
१५
स इत्यादि - स राजा तस्य मुनेस्तद्वचनं शुश्रुवान् श्रुतवान् सन् सुतविप्रयोगमसहिष्णुरसहनशीलो मुमोह मोहमुपगतः । शृणोतेः '३०९७॥ भाषायां सद-वस-श्रुवः ।३।२।१०८ |' इत्यनेन वसुः । सुतेन विप्रयोगमिति ' ६९४ । कर्तृकरणे कृता बहुलम् |२||३२|' इति समासः । '६२७| न लोकाव्यय-निष्ठा| २|३|६९ |' इति षष्ठ्याः प्रतिषेधः ॥ अथानन्तरम् । अहंयुना अहंकारवता | '१९४६ | अहं - शुभमोर्युस् | ५|२| १४० | ' तापसकुञ्जरेण । '१९०९ । तपः सहस्राभ्यां विनीनी | ५ | २|१०२ ।' इत्यनुवर्तमाने 'अण् च' इति मत्वर्थेऽण् । तापसश्च स कुञ्जरश्चेति । '७४१ । वृन्दारक - १२।१।६२।' इत्यादिना समासः । तेन क्षितिपो राजा । शुभंयुः कल्याणवान् । पूर्ववद्युस् । वचो वक्ष्यमाणमूचे उक्तः । कर्मणि लिट् । सम्प्रसारणम् । अहंयुनाथः इति विसर्गान्तं पाठान्तरम् । तत्र अहंयूनां क्षत्रियाणां नाथ इति योज्यम् ॥
२१ - मया त्वर्मायाः शरणं भयेषु, वयं त्वयाऽस्महि धर्म- वृद्ध्यै ॥
"
क्षात्रं द्विज-त्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणु स्व- सूनुम्. ॥
मयेत्यादि - भयेषु त्वं शरणम् आप्याः प्राप्तोऽसि मया । आपेः कर्मणि लुङ् । सिज्लोपः ॥ खयापि धर्मवृद्ध्यै धर्मोपचयाय वयमाप्स्महि प्राप्ताः । पूर्ववल्लुङादि । उत्तमबहुवचनम् । सिचो लोपाभावः । मकारस्याझलत्वात् ॥ तदित्थं क्षात्रं द्विजत्वं च धर्मवृद्ध्यै परस्परार्थं अन्योन्यप्रयोजनम् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः ' । 'समासवच्च बहुलम्' इति यदा न समासवत् तदायम् ॥ तस्मान्मा शङ्कां कृथाः माकार्षीः । कथमस्मिन् संकटे पुत्रं नियोज - यामीति । (२२१९ । माङि लुङ् | ३ | ३ | १७५ ।' अडभावः । '२३६८। उश्च ||२|१२|' इति कित्त्वाद्गुणाभावः । '२३६९ । ह्रस्वादङ्गात् |८|२|२७|' इति सिचो लोपः ॥ प्रहिणु प्रेषय | स्वं पुत्रम् । हिनोतेः प्रार्थनायां लोट् । भुः । अपित्वात् ङित्वम् । गुणाभावः । '२३३४ । उतश्च प्रत्ययात् - ६४ । १०६ ।' इति हेर्लुक् । '२५३०। हिनु मीना | ८|४ | १५ | ' इति णत्वम् ॥
१ - १०९५ । अहङ्कारवानहंयुः, शुभंयुस तु शुभाऽन्वितः । २ - ' स्युरुत्तरपदे व्याघ्र'पुङ्गवर्षभ-कुञ्जराः ॥ ११०५। सिंह -शार्दूल नागाऽऽद्याः पुंसि श्रेष्ठाऽर्ध-गोचराः।' इत्युभयत्र
ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com