________________
१४ भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः,
ऐषीरित्यादि-मुक्तिस्तत्वावबोधस्तस्या ध्यानं प्रयोजनं तत्र पुनर्जन्म भूयोजन्म तस्य जयाय यद्यानं त्वमैषीः एषितवानसि । इषेर्लुङ् । मध्यमैकवचने '२२६६। इट ईटि ।८।२।२८।' इति सिचो लोपे रूपम् ॥ रूपादिबोधान्यवृतच्च यत्ते-रूपादिषु शब्दस्पर्शरूपरसगन्धेषु चक्षुरादिद्वारेण यो बोधोऽध्यवसायलक्षणा बुद्धिः तम्माच्च यद्ध्यानं न्यवृतत् निवृत्तम् । वृतेषुतादित्वात् '२३४५। घुयो लुङि । १।३।९।' इति तिप् । च्लेरङ् ॥ तत्त्वानि पञ्चविंशतिः पुरुषप्रधानमहदहङ्कारादीनि । प्रतनूनि सूक्ष्माणि येन ध्यानेनाबुद्धाः ज्ञातवानसि । बुधेरनुदात्तेतो लुङ् । थासः सिच् । '२३००। लिङ्सिचावात्मनेपदेषु ।१।२।११॥' इति सिचः कित्वाद्गुणाभावः । सिज्लोपधत्वजश्त्वादि । तल्यानं शिवं शोभनं कञ्चिदिति नृपोऽवादीत् । न तस्य व्याघात इति । '२२६७। वद-ब्रज-७।२।३।' इत्यादिना वृद्धिः । '९७४। ध्यै चिन्तायाम्' भावे ल्युट । ध्यानम् ॥
१९-आख्यन् मुनिस् तस्य शिवं समाधेर्,
विघ्नन्ति रक्षांसि वने क्रतूंश्च, ॥ तानि द्विषद्-वीर्य-निराकरिष्णुस् तृणेदु रामः सह लक्ष्मणेन. ॥
आख्यदित्यादि-पृष्टो मुनिस्तस्य समाधानस्य शिवमनुपद्रवमाख्यत् कथितवान् । '२४३६। चक्षिङः ख्याञ् ।२।४।५४।। १४३८। अस्यति-३।१॥५२॥' इत्यादिना च्लेरङ् । आतो लोपः ॥ किन्त्वयं दोषः-विघ्नन्ति रक्षांसि वने ऋतून् । २६६३ । गम-हन-1६४।९।' इत्यादिना उपधालोपः । '३५८। हो हन्तेः-७।३।५४।' इति कुत्वम् ॥ किं क्रियतामिति चेदाह-तानि रक्षांसि । द्विषतां वीर्य सामर्थ्यं । वीरेः स्वार्थिकण्यन्तात् २८४२। अचो यत् ।३।११९७।' तस्य निराकरिष्णुः निराकरणशीलः । '३११६॥ अलंकृञ् -३।२।१३६।' इत्या. दिना इष्णुच् । तृणेढु हिनस्तु । तृहेर्विधौ लोट् । '२२९६॥ एरुः ॥३।११८६।' रुधादित्वात् श्रम् । '२५४५। तृणह इम् ।७।३।१२।। ३२४। हो ढः ।।२।३१॥' टुत्वम् । '२३३५। ढो ढे ।८।३।१३।' इति ढलोपः । सह लक्ष्मणेन लक्ष्म. णेन सह ॥
२०-स शुश्रुवांस्तद्-वचनं मुमोह
राजाऽसहिष्णुः सुत-विप्रयोगम्, ॥
१-१४७१ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ।' इति ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com