________________
४५० - भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्ठो वर्गः,
वान्यस्य-६१६८' इत्येत्वं न विकल्प्यते । यसात् पण्डितो जनः पृथग्जनवत् अपण्डितवत् जातु कदाचिदपि न प्रमुह्येत् न मोहं यातीति सम्भावयामः । '२८०४। जातुयदोर्लिङ् ।३।३।१४७।' इत्यनवलप्तौ लिङ ॥ १५१८-यच्च यत्र भवांस् तिष्ठेत् ,
तत्रा ऽन्यो रावणस्य न, ॥ यच्च यत्र भवान् सीदेन
महद्भिस् तद् विगर्हितम् ॥ १८ ॥ यञ्चेत्यादि-यत्र देशे काले वा भवास्तिष्ठेत् तत्र यच्च अन्यो रावणस्य कस्तिष्टेत् अवस्थानं कः करिष्यति । नैतत्सम्भावयामः तस्य तत्र. न्यूनत्वात् । अन्यसिन्नवक्लप्तिः यच्छब्देनोपपदेन योगात् २८०५। यच्चयत्रयोः ।३।३।१४।' इत्यनवक्लप्तौ भविष्यति लिङ् । यच्चेति निपातसमुदायो यच्छब्दस्वार्थे वर्तते । किं च यत्र देशे काले वा यच्च भवान् सीदेत् अवसादं करोतीति महद्भिः पण्डितैः विगर्हितं निन्दितम् । गोंयां चेति सर्वलकाराणामपवादो लिङ् । 'यञ्चयत्रयोः' इत्यनुवर्तते । अनवलप्ताविति निवृत्तम् ॥ १५१९-आश्चर्य, यच्च यत्र त्वां
प्रब्रूयाम वयं हितम् , ॥ अपि साक्षात् प्रशिष्यास् त्वं
कृच्छ्रेष्विन्द्र-पुरोहितम् ॥ १९ ॥ आश्चर्यमित्यादि-यत्र देशे काले वा यच्च यद्वयमपि त्वां हितं प्रबूयाम तदाश्चर्य विचित्रमेतत् । '२००७। चित्रीकरणे च ।३।३।१५०।' इति लिङ् । '२८०५। यञ्चयत्रयोः ।३।३।१४।' इति वर्तते । त्वामित्यकथितं कर्म । अतस्त्वं कृच्छ्रेषु व्यसनेषु साक्षादिन्द्रपुरोहितं बृहस्पतिं प्रशिष्याः बाढं शिक्षयसि । '२००९। उताप्योः समर्थयोर्लिङ् ।३।३।१५२।' अपिशब्दस्योपपदत्वात् समर्थत्वं चानयोढिमित्येतस्मिन् अर्थे । २४८६। शास इदङ्-हलोः ।।५।३४।। २४१०॥ शासि-वसि-८।३।६०।' इत्यादिना षत्वम् ॥ १५२०-कामो जनस्य-'जह्यास् त्वं प्रमादं नैर्ऋताऽधिप!' ।
उत द्विषोऽनुशोचेयु विप्लवे, किमुबान्धवाः ॥२०॥ काम इत्यादि-हे नैर्ऋताधिप रक्षसां नाथ ! त्वं प्रमादं जहाः त्यज । अस्य जनस्य पौरस्य काम इच्छा । '२०१०। कामप्रवेदनेऽकञ्चिति ।३।३।१५३।' इति लिङ् । कचिच्छब्दस्याप्रयोगात् । कामप्रवेदनं च जनामिप्रायप्रकाशनम् । अन्यच्च असिन् विप्लवे विनाशे द्विषः शत्रवोऽपि उत अनुशोचेयुः अनुशोचन्ति किमु बान्धवाः । २००९। उताप्योः समर्थयोर्लिङ ॥३॥३॥१५२॥ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com