________________
तथा लक्ष्य रूपे कथानके 'रावण-विलापों' नाम षोडशः सर्गः- ४०७ १३२७-ना ऽनुरोत्स्ये जगल्-लक्ष्मी, घटिष्ये जीवितुं न वा॥
न रस्ये विषयैः शून्ये भवने बान्धवैरहम् ॥ २३ ॥ नानुरोत्स्य इत्यादि-जगलक्ष्मी नानुरोत्स्ये न कामयिष्ये । भनो रुधिः कामे । जीवितुं वा न घटिष्ये प्रयत्नं न करिष्यामि । तस्माद्भवने बान्धवैः शून्ये विषयैः शन्दादिभिर्न रस्ये न क्रीडां करिष्ये ॥ १३२८-मोदिष्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे,॥
आदेयाः किंकृते भोगाः कुम्भकर्ण! त्वया विना. २४ मोदिष्य इत्यादि-हे कुम्भकर्ण ! त्वया विना कस्य सौख्ये अहं मोदिष्ये हर्षिष्ये । न कस्यचित् । मम वा सुखे सति को मोदिष्यते हृष्टो भविष्यति । न कश्चिदपि । किंनिमित्तं परभोगा आदेयाः भादातव्याः ॥
तदेव दर्शयन्नाह१३२९-याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः, ॥
ताः किं मन्यु-क्षताऽऽभोगा न विपत्सु विपत्तयः.२५ __ या इत्यादि--सुहृत्सु स्निग्धेषु विपन्नेषु याः सम्पदो विभूतयः समुपैष्यन्ति निष्पत्स्यन्ते ताः मन्युक्षताभोगाः शोकैः खण्डिताभोगाः किं विपत्सु न विपतयः क्षतक्षारसंस्थानीया भवन्तीति ॥ १३३०-'विनश्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः, ॥ ... अ-सन्धित्सोस् तवै' त्यैतद् विभीषण सुभाषितम्. २६
विनझ्यतीत्यादि-असन्धित्सोः रामेण सन्धानमनिच्छोः क्षिप्रमेषा पुरी लङ्का विनश्यति । '२५१७। मस्जि नशोः-७१॥६०।' इति नुम् । ततः तूर्ण वानरास्ता समेष्यन्ति । उभयत्रापि २७९१। क्षिप्रवचने लट् ।३।३।१३३॥' तदेतद्विभीषणभाषितं सर्वमुपपन्नम् । धर्म निर्णीय तेनोक्तं 'सन्धानमेवास्तु परैः' इत्यादिना ॥ १३३१-'अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम् , ॥
संयोत्स्यामह,' इत्यैतत् प्रहस्तेन च भाषितम्. ॥२७॥ अर्थनेत्यादि-राज्ञा वयमर्थेन भृताः ततो न भाषिष्यामहे किमत्र युक्तमिति एतत्प्रहस्तेन भाषितं तच तथैव सम्पादितम् । सशब्दोऽत्र निपातः । यद्यपीदृशं मन्त्रनिर्णये प्रहस्तेन नोक्तं 'सन्धानमेवास्तु परैः' इत्यादिना, तथापि विभीषणवचनादनुमीयते तेनाप्ययमर्थोऽभ्युपगत इति रावण एवमाह । तथाच विभीषणवचनं 'युद्धाय राज्ञा सुभृतैः' इत्यादि ॥ १३३२-मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम् ॥
योधयिष्यति संग्रामे दिव्याऽस्त्र-रथ-दुर्जयम् ॥२८॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com