________________
४०६ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः, १३२२-कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते ॥
संभावितानि नैतानि कदाचित् केनचिज जने. १८ कुम्भकर्ण इत्यादि-कुम्भकर्णो रणे क्रुद्धः सन् घुसा परिभविष्यते । कर्मणि लट् । एतानि भानुपतनादीनि कुम्भकर्णपरिभवान्तानि जने लोके केनचित् न संभावितानि न चिन्तितानि ॥ १३२३-कुम्भकर्णे हते लङ्का
मारोश्यन्ति प्लवङ्गमाः, ॥ दक्ष्यन्ति राक्षसान , दृप्ता
भक्ष्यन्ति च ममा ऽऽश्रमान्. ॥ १९ ॥ कुम्भकर्ण इत्यादि-कुम्भकर्णे इत्थं हते सति प्लवङ्गमा लङ्कामारोक्ष्यन्ति आक्रमिष्यन्ति । '९१६॥ रुह बीजजन्मनि' । राक्षसान् दक्ष्यन्ति दशनैः छेत्स्यन्ति । दृप्ताश्च ममाश्रमान् गृहान् भक्ष्यन्ति चूर्णयिष्यन्ति ॥ १३२४-चय॑न्ति बाल-वृद्धाश् च, नय॑न्ति च मुदा युताः॥
तेन राक्षस-मुख्येन विना तान् को निरोत्स्यति. २० चय॑न्तीत्यादि-बालान् वृद्धांश्च चय॑न्ति व्यापादयिष्यन्ति । १४११॥ घृती हिंसा-ग्रन्थनयोः' इति तौदादिकः । मुदा हर्षेण युताः नय॑न्ति । ११९१॥ नृती गात्रविक्षेपे ।' २५०६। सेसिचि-७।२।५७।' इत्यादिना विक. ल्पेनेट् । तेन च राक्षसमुख्येन विना तान् को निरोत्स्यति निवारयिष्यति ॥ १३२५-अमर्षों मे परः, सीतां राघवः कामयिष्यते, ॥
च्युत-राज्यात् सुखं तस्मात् किं किला ऽसाववाप्स्यति. __ अमर्ष इत्यादि-अमर्षः क्रोधः पर उत्कृष्टः मम यद्राघवः सीतां कामयिष्यते । कर्मणि लट् । तदन्तात् , '२८०२। अनवक्लत्यमर्षयोरकिंवृत्तेपि । ३।३।१४५।' इति अमर्षे क्रोधे लुट् । अन्यच्च च्युतराज्यात्तस्मात् रामादसौ सीता किं किल नाम सुखमवाप्स्यति तन्न सम्भावयामि । '२८०३। किंकिलास्त्यर्थेषु लट् ।३।३।१४६।' इति अनवक्लप्तावसंभावनायां लट् ॥ १३२६-मारयिष्यामि वैदेही, खादयिष्यामि राक्षसैः, ॥
भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम् २२ मारयिष्यामीत्यादि-अथवा अस्य सर्वस्य विध्वंसस्य विनाशस्य कारणं बैदेहीं मारयिष्यामि व्यापादयिष्यामि । एतैर्वा राक्षसैः खादयिष्यामि भोजयिप्यामि । ५४०। गति-बुद्धि-११४१५२।' इत्यादिना प्रत्यवसानार्थे कर्मसंज्ञायां प्राप्तायाम् 'भादिखायोः प्रतिषेधः' इति कर्तृसंज्ञैव भवति । भूमौ वा निखनिष्यामि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com