________________
तथा लक्ष्य-रूपे कथानके 'रावण-विलापों' नाम षोडशः सर्गः- ४०५
हनिष्यामि रिपूस् तूर्ण,
न जीविष्यामि दुःखितः ॥ १३ ॥ मरियामीत्यादि-यदि मम तनया हताः तदा मरिष्यामि शत्रून् वा विजेष्ये । '२५३४॥ म्रियतेलुंङ्-लिडोः-११॥३॥६॥' इति नियमात्तङ् न भवति । उत्तरत्र '२६८५। वि-पराभ्यां जेः ॥१॥३।१९।' इति तङ् । ततो रिपून तूर्ण हनि. ज्यामि । पुनर्बन्धु विनाकृतत्वात् दुःखितः सन् न जीविष्यामि ॥ १३१८-स्मेष्यन्ते मुनयो, देवाः
कथयिष्यन्ति चाऽनिशम् ॥ 'दश-ग्रीवस्य दुर्-नीतेर्
विनष्टं रक्षसां कुलम्.' ॥ १४ ॥ स्मेष्यन्त इत्यादि-मुनयो हर्षात् स्मेष्यन्ते हसिष्यन्ति। डिवात्तङ् । देवा भनिशं कथयिष्यन्ति । यथा दशग्रीवस्य दुनीते१र्नयात् रक्षसां कुलं विनष्टम् ॥ १३१९-केन सम्भावितं तात-कुम्भकर्णस्य राघवः॥
रणे कस्येति गात्राणि ममाणि च वितत्स्येति.॥१५॥ केनेत्यादि-हे तातेति शोकात् बुद्धिस्थं पितरमभिमुखीकरोति । केनैतत्स. म्भावितं निश्चितम् । यत् कुम्भकर्णस्य गात्राणि रणे राघवः करस्य॑ति छेत्स्यति । १५२९। कृती छेदने । मर्माणि वितस्य॑ति अपनेष्यति । १५४०। उतृदिर हिंसाऽनादरयोः' । '२५०६। सेसिचि-७।२।५७।' इत्यादिना इविकल्पः ॥ १३२०-पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते. ॥
नभस्त्रान् भक्ष्यते व्योम मुष्टिभिस् ताडयिष्यते. ॥ पतिष्यतीत्यादि-क्षितौ भूमौ भानुरादित्यः पतिष्यति अधो गमिष्यति । पृथिवी तोलयिष्यते अवं क्षेप्स्यते । १७१६॥ तुल उन्माने' चुरादावदन्तेषु च पठ्यते । कर्मणि लृट् । नभस्वान् वायुः काष्ठवद्भक्ष्यते । कर्मणि लद । मुष्टिभिव्योम ताडयिष्यते हनिष्यते ॥ १३२१-इन्दोः स्यन्दिष्यते वह्निः, समुच्छोक्ष्यति सागरः, ॥
जलं धक्ष्यति, तिग्मांशोः स्यन्त्स्यन्ति तमसां चयाः.॥ इन्दोरित्यादि-इन्दोः वह्निः स्थन्दिप्यते प्रस्त्रविष्यति । '२३५७। वृद्यः स्यसनोः ।।३।१२।' इति परस्मैपदविकल्पः । सागरः समुच्छोक्ष्यति शोष यास्यति । जलं धक्ष्यति भस्मसात् करिष्यति । '१०६०। दह भस्मीकरणे'। '३२४। हो ढः ।२।३३' । ३२६। एकाचो बशो भए-1८।२।३॥' इति भभावः । तिग्मांशोरादित्यात्तमसा चयाः तमासंघाः स्यन्स्यन्ति । स्वन्देः पूर्ववत्परस्मैपदविकल्पः । २३४८॥ न वृधः-७।२।५९।' इतीदप्रतिषेधः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com