________________
भोक्ष्यते यज्ञ-रिन्द्रः हन्तुं वा । यज्ञभाग
तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः- ४०३ पूजयिष्यति । स्वयम्भूब्रह्मा कस्य तोक्ष्यति प्रीति जनयिष्यति । १२६० । तुष प्रीतौ' । २९५। ष-ढोः कः सि ।।२।४॥॥ १३०८-श्लाघिण्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः ॥
कः प्रेष्यति पितृन् काले, कृत्वा कत्थिष्यते न कः. ४ श्लाघिन्य इत्यादिना-केनाहं श्वाधिध्ये श्लाघां करिष्यामि 'ममेदृशः पुत्रः' इति । कः स्वगुणैरुन्नतः सन् बन्धूनुबतिं परां कोर्ट नेष्यति । काले पितृक्रियोचिते कः पितॄन् प्रेष्यति तर्पयिष्यति । १५६९। प्रीज् तर्पणे' । कृत्वा किंचित्कार्यम् । को न कस्थिष्यते कत्थनां न करिष्यति 'अहमेवंविधः' इति । भतिकायाद्विनेति सर्वत्र योज्यम् ॥ १३०९-उद्यस्यति हरिर् वज्र, विचरिष्यति निर्-भयः ॥
भोक्ष्यते यज्ञ-भागांश् च शूर-मानं च वक्ष्यति.॥५॥ उद्यस्यतीत्यादि तथा हरिरिन्द्रः हन्तुं वज्रमुद्यस्यति उद्धारयिष्यति । उत्पूर्वाद्यमे रूपम् । निर्भयश्चेतस्ततो विचरिष्यति । यज्ञभागांश्चात्मीयान् भोक्ष्यते भक्षयिष्यति । '२७३७॥ भुजो ऽनवने ।।३।६६।' इति ता । शूरमानं च 'शूरो ऽस्मि' इति वक्ष्यति धारयिष्यति । वहेः '३२४॥ हो ढः। ८॥२३॥' । २९५। ष-दोः कः सि ।।२।४१' ॥ १३१०-रविस् तप्स्यति निः-शङ्क, वास्यत्यनियतं मरुत् , ॥
निर्वस्यैत्यतु-संघातः, स्वेच्छयेन्दुरुदेष्यति. ॥ ६ ॥ - रविरित्यादि-रविः निःशवं शङ्कां विना तप्स्यति चोतिष्यते । मरुचा. नियतं स्वच्छन्दो वास्यति । ११२४। 'वा गति-गन्धनयोः'। ऋतुसंघातः षड़तवः निर्वय॑ति सर्वदा न भविष्यति । २३४७। वृन्यः स्य-सनोः ।।३।९२।' इति विकल्पः । २३४८। न वृयश्चतुर्थ्यः ।।२।५९।' इतीदप्रतिषेधः । स्वेच्छयेन्दुरुदेष्यति सदा पूर्णमण्डलो नोद्गमिष्यति । १११८॥ इण् गतौ' । १३११-तीनं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः ॥
अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा.॥७॥ तीव्रमित्यादि-मेघैस्तीवं अतिशयेन स्थन्दिष्यते पूर्व रजःप्रशमनमानं वृष्टम् । भावे लट् । '२३४८॥ न वृधः-७।२।५९।' इतीदप्रतिषेधो न भवति । तत्र परस्मैपदग्रहणमनुवर्तते । यमः उग्रं वर्तिध्यते रौद्रं चरिष्यति । आत्मनेपदे नेदप्रतिषेधः । अतिकायस्य मरणे सति इन्द्रादयः किमन्यथा विपर्ययं न करिष्यन्ति किन्तु करिष्यन्तीति । किं भविष्यति नान्यथा' इति पाठान्तरम् । तत्र सर्वमेतद्भविष्यतीत्यर्थः ॥ १३१२-उन्मीलिष्यति चक्षुर्मे वृथा, यद् विनयाऽऽगतम् ॥
___ आज्ञा-लाभोन्मुखं नबंन द्रक्ष्यति नरान्तकम् ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com