________________
१०२ मट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः, -
हस्त्रादङ्गात् ।।२७।' इति सिचो लोपः । विटपहरिणनाथः शाखामृगाणां नाथः नित्यां सिद्धिमवश्यं भाविनीमौहिष्ट तर्कितवान् । नृपतिमतिः रामस्थ बुद्धिः प्राप्तकामेव संपन्नेच्छेव रावणवध-सीतालाभयोः सिद्धिरूपत्वात् । हर्षादरंस्त रमते स्म । रजनिचरपतीनां मेघनादादीनां शोकः सन्ततोऽविच्छिन्नः भतायि वर्धते स । '२३२८। दीप-जन-३।१६।' इत्यादिना कर्तरि चिण् ॥ . इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये* चतुर्थे तिङन्त-काण्डे लक्षण रूपे द्वितीयः परिच्छेदः (वर्गः), तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम
पञ्चदशः सर्गः ॥१५॥
षोडशः सर्गः... इतः प्रभृति लूटमधिकृत्य विलसितमाह-तत्र '२१९३। लःशेषे च। ३।३।१३॥' इति लद । ततोऽन्यत्रापि दर्शयिष्यति ॥ १३०५-ततः प्ररुदितो राजा रक्षसां हत-बान्धवः ॥
'किं करिष्यामि राज्येन, सीतया किं करिष्यते. १ तत इत्यादि-ततो ऽनन्तरं रक्षसां राजा रावणः हतबान्धवः व्यापादितभ्रातृत्वात् शोकाभिभूतः सन् प्ररुदितः ऋन्दितुमारब्धः । 'किं करिष्यामि' इत्यादिना । ३०५३। आदिकर्मणि क्तः-३॥७॥' अतिकाये वीरें हते कि करिष्यामि राज्येन, न किंचित् । '२३६६। ऋद्धनोः स्ये ७।२।७०।' इतीद । सीतया च किं करिष्यते, न किंचित् ॥ १३०६-अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्.॥
हेपयिष्यति कः शत्रुन् , केन जायिष्यते यमः ॥२॥ अतीत्यादि-वीरे अतिकाये हते जीवितुमेव नोत्सहे किमन्यत्कर्तुम् । शक्तः पलायनेन कः हेपयिष्यति लजयिष्यति । '२५७०। भर्ति-ही-७॥३॥३३॥ इत्यादिना णौ पुगन्तगुणः । केन यमः जायिष्यते । '६०२। जि जये' । कर्मणि लट् । '२७५७। स्य-सिच्-६४।६।' इत्यादिना चिण्वदिद च ॥ १३०७-अतिकायाद् विना पाशं
को वा छेत्स्यति वारुणम्, ॥ रावणं मस्यते को वा,
स्वयम्भूः कस्य तोक्ष्यति. ॥३॥ • अतीत्यादि-६०३ । पृथग्-विना-१२।३।३।' इति पञ्चमी । अतिकायाद्विना वारुणं पाशं को वा. छेत्स्यति द्विधा करिष्यति । को वा रावणं मंसते Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com