________________
तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ४०१
प्रौर्णावीदित्यादि - प्रोर्णावीत् छादितवानित्यर्थः । ' २४४७ | विभाषोर्णोः । १|२|३|' इत्यकित्वपक्षे रूपम् । स च निशाचरस्तान्नगान् शरवर्षेणापौहीत् निरस्तवान् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' इत्यात्मनेपदविकल्पः । रामश्च तद्धनुकौशलं दृष्ट्वा भङ्गदं रक्षितुं तूर्णं वानरानैजिहत् व्यापारितवान् । ईहतिर्ण्यन्तः ॥ १३०१ - द्रुतमंत्रास्त सुग्रीवो भ्रातृव्यं शत्रु-संकटात्, ॥
मुष्टिना कौम्भकर्ण च क्रुद्धः प्राणैरतित्यजत्. ॥१२०॥
द्रुतमित्यादि - सुग्रीवस्तस्माच्छत्रु संकटात् भ्रातृष्यं भ्रातुरपत्यम् । '११६७॥ भ्रातुर्व्यच्च |४|१|१४४|' । द्रुतमत्रास्त रक्षितवान् । अग्रतो भूत्वा । '१०३४ | त्रै पालने' । कौम्भकर्ण कुम्भं कुद्धः सन् मुष्टिना प्राणैरतित्यजत् त्याजितI वान् | त्यजिर्ण्यन्तः ॥
१३०२ - निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः, ॥
हनूमांश् चा ssपतन्तं तर्मभाङ्गीद् भोगि भीषणम् ॥
निकुम्भ इत्यादि - ततो भ्रातृवधात् निकुम्भो वानरस्य सुग्रीवस्य परिघं प्राहैषीत् प्रहितवान् । '१३३७| हि गतौ ।' परिघमापतन्तं निकुम्भात् भोगि• भीषणं भहिवत् भीषणम् हनूमानभाङ्क्षीत् भग्नवान् ॥ १३०३ - प्रौर्णुवीत् तेजसाऽरातिर्मरासीच् च भयंकरम् ॥
"
ग्रीवां चा ऽस्य तथाक्राक्षीदजिजीवद् यथा न तम्. ॥ प्रौर्णुवीदित्यादि - परिषं च हनूमान् तेजसा प्रौर्णुवीत् अभिभूतवान् । कित्वादवृद्धिपक्षे रूपम् । भयंकरं चारासीत् शब्दितवान् । अस्य च निकुम्भस्य ग्रीवां तथाकाक्षीत् आकृष्टवान् । अमागमपक्षे रूपम् । यथा तं नाजिजीबद् न जीवति स्म । ग्रीवामाकृष्यैव व्यापादितवानित्यर्थः । '३१५७॥ भ्राजभास|३।२।१७७|' हृत्य हूस्वपक्षः ॥ १३०४ - समगत कपि सैन्यं सम्मदेना ऽतिमात्रं,
विटप - हरिण - नाथः सिद्धिमौहिष्ट नित्याम् ॥ नृ-पति- मतिररंस्त प्राप्त - कार्मेव हर्षात्, रजनि-चर- पतीनां सन्ततो ऽतायि शोकः ॥ १२३ ॥ इति भट्टिकाव्ये तिङ्-काण्डे लुङ्-विलसितो नाम पञ्चदशः सर्गः ॥ १५ ॥
●
समगतेत्यादि — प्रधावयोधा निहता इति सम्मदेन हर्षेणातिमात्र मत्यये समगत संगतं कपिसैन्यम् । २६९९ । समो गम्युच्छि - ११।३।२९ |' इति तङ् । ‘२७००। बा गमः । १।२।१३ | ' इति सिचः किरवे ऽनुनासिकलोपः । ' २३६९
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com