________________
४०० भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, म । अजादेरङ्गस्य । '२२५४। आडजादीनाम् ।६।४।७२।' । परयोरनङ्गत्वाच्च '२३२६। उपसर्गस्यायतौ ।।२।१९।' इति लत्वम् । क्षतं च खण्डितं च सत् रकमच्युतत् क्षरति स । '२२६९। इरितो वा ।३।१५७। इत्यङ् । हतं च निहतं सत् गामध्यशयिष्ट भूमौ पतितम् । ५४२। अधिशी-1॥४॥४६॥' इति कर्मसंज्ञा ॥ १२९६-अङ्गदेना ऽहसातां तौ युध्यकम्पन-कम्पनौ, ॥
अभ्यादीद् वालिनः पुत्रं प्रजवो ऽपि स-मत्सरः.११५ अङ्गदेनेत्यादि-अकम्पनः कम्पनश्च तौ । ज्येष्ठत्वात् पूर्वनिपातः । युधि संग्रामे भङ्गदेन भहसाताम् । कर्मणि लुङ् । २६९६। आत्मनेपदेष्वन्यतरसाम् । २।४।४४।' इति वधादेशाभावपक्षे रूपम् । प्रजङ्को नाम राक्षसः समसरः सकोधः वालिनः पुत्रमभ्यादीत प्रहृतवान् । '१९६८। अर्द हिंसायाम् ॥ १२९७-तस्या ऽप्यवेभिदिष्टा ऽसौ मूर्धानं मुष्टिनाऽङ्गदः, ॥
अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः॥११६॥ तस्येत्यादि-तस प्रजङ्घस्यापि मूर्धानमसावङ्गदो मुष्टिनाबेभिदिष्ट अत्यर्थ भिन्नवान् । भिदेर्यङन्तस्य '२३०८। अतो लोपः ॥६४४८।। २६३१॥ यस्य हलः ।६।४।४९।' इति यलोपे रूपम् । निराकुलश्च नाम वानरः यूपाक्षस्य राक्ष. सस्य शिरः क्षिप्रमहार्षीत् छिन्त्रवान् ॥ १२९८-शरीरं लोहिताक्षस्य न्यभासीद् द्विविदस् तदा, ॥
क्रुद्धः कुम्भस् ततोऽभैसीन् मैन्द स-द्विविदं शरैः॥ शरीरमित्यादि-द्विविदो नाम वानरो लोहिताक्षस्य शरीरं न्यभावीत् चूर्णितवान् । १५४७। मञ्जो मामर्दने । ततो ऽनन्तरं कुम्भकर्णसुतः मैन्दं वानरं सद्विविदं द्विविदेन सह शरैरभैरसीत् मिन्नवान् ॥
युग्मम्१२९९-आपूर्णिष्टां क्षतौ, मां च तावाशिनियतामुभौ.॥
मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः॥११८॥ आघूर्णिष्टामित्यादि-तावुभौ क्षतौ आघूर्णिष्टां चक्रवद् भ्रान्तौ । इमा च भूतमाशिप्रयता आश्रितवन्तौ । भूमौ पतितावित्यर्थः । '२३१२। णि-शि।३।१॥४८॥ इत्यादिना चङ् । तौ च ताराभ्रातृत्वात् मातुलौ विह्वलौ दृष्ट्वा वालिसुतो नगैर्वृशैः कुम्भं प्रौर्णावीदिति वक्ष्यमाणेन सम्बन्धः ॥ १३००-ौर्णावीच् , छर-वर्षेण तानप्रौहीन् निशा-चरः ॥
वानरानैजिहद् रामस् तूर्ण रक्षितुमङ्गदम् ॥११९॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com