________________
३.९८ भट्टिकाव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
तावित्यादि-या मृतं जीवयति या च क्षतस्य सन्धानं करोति तथा विशल्यं च या करोति । '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३।' तामोषधीमानेतुं प्राहैष्टामिति योज्यम् । ३५३४। ओषधेश्च विभक्तावप्रथमायाम् । ।६।३।१३२।' इति दीर्घत्वम् ॥ १२८७-प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः, ॥
यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्र-शः॥१०६॥ प्रोदपातीत्यादि-तेन हनूमता नभः प्रोदपाति उत्पतितम् । स च महा. गिरिस्तेन प्रापि प्राप्तः । कर्मणि लुङ् । यस्मिन् गिरौ महौषध्यः सहस्रशोऽनेकधा रात्रावज्वलिषुः दीप्यन्ते स । '२३३०। अतो लान्तस्य ।।२।२।' इति वृद्धिः ॥ १२८८-निरचायि यदा भेदो नौषधीनां हनू-मता, ॥
सर्व एव समाहारि तदा शैलः सहौषधिः. ॥१०॥ निरचायीत्यादि-यदा हनूमता ओषधीनां भेदो न निरचायि विशेषतो न निश्चितः तदा कृत्स्न एव शैलः सहौषधिरोषधिसहितः समाहारि समानीतः ॥ १२८९-प्राणिषुर् निहताः केचित्,
केचित् तु प्रोदमीलिषुः॥ तमो ऽन्ये ऽहासिषुर् योधा,
व्यजम्भिषत चाऽपरे. ॥ १०८॥ प्राणिषुरित्यादि-यदा ओषधिसन्निधानात् ते निहताः केचिद्योधाः प्राणिषुः उच्छसितवन्तः। केचित्तु प्रोदमीलिषुः उन्मीलितलोचना बभूवुः। अन्ये तमो मोहमहासिषुः त्यकवन्तः ।। २३७७। यम-रम-1८।२।७३॥' इति सगिटौ । तथान्ये ऽहासिषुरिति पाठान्तरम् । ते तथाभूतमात्मानं दृष्ट्वा सविलासं हसितवन्तः । अपरे व्यजृम्भिषत जृम्भिकां कृतवन्तः । '४१५।१६। जभि जुभि गाविनामे' इत्यात्मनेपदी॥ १२९०-अजिघ्रपंस तथैवाऽन्यानौषधी लिपंसू तथा, ॥
एवं तेऽचेतिषुः सर्वे, वीर्य चाऽधिषताऽधिकम्.१०९ अजिघ्रपत्रित्यादि-तथान्यान् लब्धसंज्ञानोषधीरजिघ्रपन प्रापितवन्तः । नासिकयाभ्यवहृतवन्त इत्यर्थः । '५४०। गति-बुद्धि-1॥४॥५२॥' इत्यादिना प्रत्यवसाने कर्मसंज्ञा । '२५८९। जिघ्रतेर्वा ।७।४।६।' इति २३१४॥ णौ चब्यु. पधायाः -७।४।१४।' इत्यकारः । तथालिपन् लिप्तवन्तः । अन्यानोषधीभिरित्य
र्थात् । '२५१८। लिपि-सिचि-३।११५३।' इत्यछ । एवमनेन प्रकारेण सर्वे. ऽचेतिषुः संज्ञां लब्धवन्तः । '३९। चिती संज्ञाने ।' अधिकं च वीर्यमोषधि प्रलादविषत दधति म । २३८९। स्था-वोरिश्च ॥१॥॥१७॥ ॥ . Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com