________________
तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण वधो' नाम पश्चदशः सर्गः - ३९७
१२८२ - ' मा शोचिष्ट रघु- व्याघ्रौ नाऽमृषातामिति ब्रुवन् ॥
अवाबुद्ध स नीलाssदीन् निहतान् कपियूथपान् ॥
मा शोचिष्टेत्यादि - यूयं मा शोचिष्ट शोकं मा कुरुत । '२२१९ | माहि लुङ् ||३|३|१७५ ।' यस्माद्वघुव्याघ्रौ नामृषातां न मृतौ इत्येवं ब्रुवन् अपारीद्विति योज्यम् । ये च निहतास्तान्नीलादीन् कपियूथपान् स विभीषणः परिभ्रमन् अवाबुद्ध अवबुद्धवान् । एते हता इति । '२३२८ । दीप- ।३।१।६१।' इत्यादिना चिणो विकल्पितत्वादभावपक्षे रूपम् ॥
१२८३- तत्रैषज् जाम्बवान् प्राणीदु॑दमीलीच् च लोचने, ॥
पौलस्त्यं चाऽगदीत् 'कच्चिदजीवीन् मारुताऽऽत्मजः '
तत्रेत्यादि - तत्र तेषु जाम्बवान् ईषन्मनाकू प्राणीत् उच्छ्वसिति स्म । '११४४ | अन प्राणने । ', ' २४७८| अनितेः | ८|४|१९|' इति णत्वम् । लोचने च उदमीलीत् उन्मीलितवान् । '५५६ । मील क्ष्मील निमेषणे' । पौलस्त्यं च विभीषणमगदीत् गदितवान् । '२२८४ । अतो इलादेः - ७२|७|' इत्यवृद्धौ रूपम् । कञ्चित् किं हनुमान् भजीवीत् जीवितवान् । न मृत इति ॥ १२८४ - तस्य क्षेमे महा - राज ! ना मृष्मर्ह्यखिला वयम्. ॥
पौलस्त्योऽशिश्रवत् तं च जीवन्तं पवनऽऽत्मजम्. ॥
तस्येत्यादि - तस्य हनुमतः क्षेमे जीवितत्वे सति हे महाराज ! अखिलाः सर्व एव वयं नामृष्महि न मृता इति । '२७९० | आशंसायां भूतवच | ३ |३|१३२ ।' इति लुङ् । एवमुक्तः पौलस्त्यो जीवन्तं पवनात्मजं तमशिश्रवत् श्रावितवान् । शृणोतेर्ण्यन्ताच्च ङि सन्वद्भावे अभ्यासेवर्णस्य '२५७८ । स्रवति शृणोति|७|४|८१|' इत्यादिना इत्वपक्षे रूपम् ॥
-
युग्मम् —
१२८५ - आयिष्ट मारुतिस् तत्र, तौ चा ऽप्यहृषतां ततः, ॥ प्राहैष्टां हिमवत्पृष्ठे सर्वौषधि - गिरिं ततः ॥ १०४ ॥
आयिष्टेत्यादि - तत्र पौलस्त्याहूतो मारुतिरायिष्ट आगतवान् । '५०८/ अय गतौ' आङ्पूर्वः । ततो ऽनन्तरं तौ जाम्बवद्विभीषणौ अहृषातां हृष्टवन्तौ । '१३०८। हृष तुष्टौ ' पुषादिः । ततस्तौ हृष्टौ हनुमन्तमिति वक्ष्यमाणेन सम्बन्धः । प्राष्टां प्रहितवन्तौ । २२९७| सिचि वृद्धिः | ७|२१|' '१३३७| हि गतौ' । हिमवत्पृष्ठे हिमवतः पृष्ठे । सर्वोषधिगिरिम् । सर्वा भोषधयो यस्मिन्निति ॥ १२८६ - तौ हनूमन्तमा॑ने॒तुमषधीं मृत-जीविनीम् ॥
सन्धान-करणीं चाऽन्यां वि-शल्य- करणीं तथा . १०५
भ० का ० ३४
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com