________________
३९६ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, अस्त्रमण्डलं आयुधग्रामं समयष्ट पूजितवान् । स इन्द्रजित् ब्रह्मणः सकाशात् जयावहमस्खं स्यन्दनं चालब्ध लब्धवान् । '२२८१॥ झलो झलि ।।२।२६।' इति सिचो लोपः॥ १२७८-तमध्यासिष्ट दीपाऽग्रममोदिष्ट च रावणिः॥
छन्न-रूपस ततोऽकर्तीद् देहान् रावण-विद्विषाम. ९७ तमित्यादि-तं स्यन्दनं दीप्राग्रं उपरिभागस्य रत्नप्रत्युप्तत्वात् । अध्यासिष्ट अध्यासितवान् । ५४२। अधि-शीङ्-।१।४।४६।' इति कर्मसंज्ञा । तत्रस्थश्च रावणिरिन्द्रजित् अमोदिष्ट हृष्टवान् । ततोऽसौ छन्नरूपः अदृश्यः सन् रावणविद्विषां वानराणां देहानकर्तीत् छिन्नवान् । '१४२९। कृती छेदने ।' २५०६। सेसिचि-1७।२।५७।' इत्यादिना सिचो ऽन्यत्रेड्विकल्पः । 'रावणिविद्विषाम्' इति पाठान्तरम् । तत्र देवान्तकादिविद्विषामित्यर्थः ॥ १२७९-सप्त-पष्टिं प्लवङ्गानां कोटीर् वाणैरसूषुपत्. ॥
निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्.९८ सप्तषष्टिमित्यादि-वानराणां कोटीः सप्तषष्टिं बाणैरसूपुपत् स्वापितवान् व्यापादितवानित्यर्थः । '२५८४॥ स्वापेश्चङि ।६।१।१४।' इति सम्प्रसारणम् । निशान्ते च निशावसाने रावणिः क्रुद्धः सन् राघवौ व्यमूमुहत् मोहितवान् । १२७४। मुह वैचित्ये।' णौ चङि रूपम् ॥ १२८०-अपिस्फवत् स्व-सामर्थ्यमगृहीत् सायकैर् दिशः, ॥
अघोरीच्च महा-घोरं, गत्वा, प्रैषीच् च रावणम्.९९ अपिस्फवदित्यादि-तौ मोहयित्वा आत्मीयं सामर्थ्यमपिस्फवत् वर्धयति स्म । 'ईदृशस्तादृशोऽहम्' इति । '२५९७। स्फायो वः ॥३॥४१॥' इति णौ वत्वम् । दिशः सायकैरगृहीत् छादितवान् । '२२७८। नेटि ७११॥४॥' इति वृद्धिप्रतिषेधः । हयन्तत्वाद्वा । महाघोरं चातिराद्रं शब्दमघोरीत् मुक्तवान् । गत्वा च लङ्कां रावणं प्रेषीत् प्रेषितवान् । 'गच्छ तत् ममाद्भुतपराक्रम द्रष्टुम्' इति । 'इषु गतौ'॥
युग्मम्१२८१-विभीषणस् ततोऽवोधि स-स्फुरौ राम-लक्ष्मणौ, ॥
___ अपारीत् स गृहीतोल्को हत-शेषान् प्लवङ्गमान्. ॥ विभीषण इत्यादि-ततस्तस्मिन् काले विभीषणः रामलक्ष्मणौ सस्फुरौ चलन्तौ अबोधि बुद्धवान् जीविताविति । '२३२८। दीप-जन-३॥१६॥' इत्यादिनो कर्तरि चिण् । स्फुरणं स्फुरः । घजर्थे कविधानम् । यदुक्तं स्थानागाव्यबिहनियुध्यर्थमिति तदुपलक्षणं न परिगणनम् । स विभीषणः अन्धकारात्
गृहीतोल्कः सन् हतशेषान् प्लवङ्गमानपारीत् ‘मा भैष्ट' इति प्रीणितवान् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com