________________
३९४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण रूपे द्वितीयो वर्गः,
तुष प्रीतौ ' ण्यन्तः । महास्त्राणि दिव्यानि चाशिक्षिष्ट शिक्षते स्म । '६४७ | शिक्ष विद्योपादाने' । रणे च राक्षसानरक्षीत् रक्षति स्म ॥
१२६९–अध्यगीष्टा ऽर्थ-शास्त्राणि, यमस्या ऽह्नोष्ट विक्रमम्, ॥ देवाऽऽहवेष्वदीपिष्ट,
ना जनिष्टा ऽस्य साध्वसम् ॥ ८८ ॥ अध्यगीष्टेत्यादि - अर्थशास्त्राणि पराभिसन्धानार्थानि अध्यगीष्ट अधीतवान् । '२४६० । विभाषा लुङ् -लुङोः | २|४|५० |' इति इङो गाङादेशः । यमस्याप्ययं विक्रममद्दोष्ट अपनीतवान् । '११५६ । हुङ् अपनयने ।' अहलन्तत्वात्सिचो न कित्वम् | देवाहवेष्वदीपिष्ट शोभितः । अस्य च साध्वसं भयं नाजनिष्ट न जातम् । '२३२८ | दीप-जन - | ३ | ११६१। ' इत्यादिना चिण्वद्भावपक्षे रूपम् ॥ १२७० - एष रावणि/पादि वानराणां भयङ्करः ॥'
आता ऽथ स काकुत्स्थं धनुश् चा ऽपुस्फुरद् गुरु. ॥
एष इत्यादि - य एवं स एष रावणिः आपादि अस्माकं समीपमागतः । '१२४४ । पद गतौ ।' '२५१३ | चिण् ते पदः | ३ | १|६० । ' इति चिण् । यतो रावणिर्वानराणां भयङ्करः । अथ सो ऽतिकायः समीपमागतः काकुत्स्थमाह्नत युद्धायाहूतवान् । ‘२४१९। आत्मनेपदेष्वन्यतरस्याम् | ३|१|५४|' इत्यङ् । धनुश्च गुरु महदपुस्फुरत् स्फारितवान् । '२५६९ | चि स्फुरोण | ६ |१| ५४ |' इत्यात्वम् ॥ १२७१-सौमित्रिः सर्प-वत् सिंहमार्दिदत् तं महाऽऽहवे. ॥ तौ प्रावीवृततां जेतुं शर- जालान्यनेकशः ॥ ९० ॥ सौमित्रिरित्यादि -- यथा सर्पः सिंहं गच्छति तद्वत्तमतिकायमार्दिदत् गतवान् । ‘५६। अर्द गतौ ।' अर्दनमर्दः । तस्करोतीति णिच् । तदन्ताच्चङि रूपम् । '१९६८ | अर्द हिंसायाम्' इति चौरादिको वा । तौ सौमित्रयतिकायौ जेतुं शरजालानि प्रावीवृततां बहूनि प्रवर्तितवन्तौ । ' २५६७। उक्रेत् |७|४|७|' इति णौ चड्युपधाया अपवाद ऋकारः ॥ १२७२-अच्छैत्तां च महा॒ऽऽत्मानौ, चिरमश्रमतां न च ॥
"
तथा तावा॑स्थतां बाणान॑तानिष्टां तमो यथा ॥९१॥ अच्छेत्तामित्यादि - तौ च महात्मानौ परस्परस्य शरजालानि अच्छेत्तां छिन्नवन्तौ । ‘२२६९। इरितो वा | ३|१|५७ |' इत्यङभावपचे रूपम् । '२२८१॥ झलो झलि |८|२|२६|' इति सिचो लोपः । चिरं चिरेणापि नाश्रमतां न श्रान्तौ । श्रामिः पुषादिः । तौ तथा बाणावास्थतां क्षिप्तवन्तौ । ' २४३८ | अस्थति - वक्ति - |३|१|५२ |' इत्यङ् । '२५२० । अस्यतेस्थुकू | ७|४|१७|' यथा Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com