________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पञ्चदशः सर्गः- ३९३ । अबभ्राजदित्यादि-ततोऽनन्तरं त्रिशिराः कुमारः पवनात्मजविषये शकि वीर्यमबभ्राजत् दीपयति स । '२५६५। भ्राज-७॥३॥' इत्यादिना इस्त्राभावपक्षे रूपम् । तस्य वाजिनो रथयुक्ता रणे हनूमता हताः सन्तः अमृषत मृताः '२५३८। म्रियतेलुंङ्-१३।६।' इति तङ् ॥ १२६५-अस्रसच् चाऽऽहतो मूर्भि,
खङ्गं चा ऽजीहरद् द्विषा, ॥ प्राणानौज्झीच च खगेन
छिन्नस् तेनैव मूर्धभिः ॥ ८४ ॥ अस्त्रसदित्यादि-त्रिशिराश्च हनूमता मूर्ध्नि हतः सन् रथाद्भूमौ अनसत् सस्तः पतितः । '२३४५। द्युयो लुङि ।१३।९१॥' इति परस्मैपदम् । दुतादिस्वादङ् क्लिति इत्यनुनासिकलोपः । स्रस्तश्च स खड्गं हस्तस्थं द्विषा हनूमता अजीहरत् हारितवान् । तेनैव च खङ्गेन छिन्नमूर्धभिहेतुभूतैः प्राणानौज्झीत् त्यत्तवान् । '१३८८। उज्झ उत्सर्गे' ॥
युग्मम्१२६६-मत्तेना ऽमारि संप्राप्य शरभाऽस्तां महा-गदाम्, ।।
सहस्र-हरिणा ऽक्रीडीदतिकायस् ततो रणे.॥८५॥ मत्तेनेत्यादि-शरभेण वानरेणास्तां क्षिप्तां महागदां प्राप्य मतेन सुतानां रक्षार्थ प्रेषितेन राक्षसेनामारि मृतम् । भावे लुङ् । ततोऽनन्तरं अतिकायो राजपुत्रो रणे अक्रीडीत् विहरति स्म । रथेनेति वक्ष्यति । सहस्रं हरयो ऽश्वा यस्य रथस्य । १२६७-रथेना ऽविव्यथच् चाऽरीन्,
व्यचारीच् च निरङ्कुशः, ॥ विभीषणेन सो ऽख्यायि
राघवस्य महा-रथः ॥ ८६ ॥ रथेनेत्यादि-अरींश्वाविव्यथत् पीडितवान् । व्यथेर्ण्यन्तस्य चडि रूपम् । निरङ्कुशश्चाप्रतिहतशक्तिय॑चारीत् भ्राम्यति स । रान्तत्वादृद्धिः । स विचरन्महारथः विभीषणेन राघवस्य आख्यायि कथितः । कर्मणि लुङ् ॥ १२६८-'अतस्तम्भदयं वज्र, स्वयम्भुवमतूतुषत्, ॥
अशिक्षिष्ट महाऽस्त्राणि, रणे ऽरक्षीच् च राक्षसान्. ८७ . अतस्तम्भदित्यादि-अयं स्त्रशत्तया वजं अतस्तम्भत् स्तम्भितवान् । ४४३॥ स्तभि स्कभि प्रतिष्टम्भे ।' ण्यन्तस्य । '२३१२। णि-शि-३।११४८॥' इत्यादिवा चङ् । स्वयम्भुवमन्तुषत् उग्रेण तपसा आराधनात् तोषितवान् । १२६० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com