________________
३९९ भट्टिकाव्ये - चतुर्थं तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
करोतीति णिच् । णाविष्टवदिति टिलोपः । '२३१४ | णौ चङ्युपधाया - 1७|४|१| ' इति ‘२५७२। नाग्लोपिशास्वृदिताम् |७|४| २ |' इति हस्वप्रतिषेधः । स च राबणिरव्यथो व्यथारहितः । हताश्वाद्रथादवतीर्य महीं गतः सन् योद्धुमारब्ध आरभते स्म । '२२८१ । झलो झलि |८|२|२६|' इति सिचो लोपः । घत्वं च ॥
१२६० - तस्या Sहारिषत प्राणा मुष्टिना वालि- सूनुना ॥ प्रादुद्रुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्. ॥७९॥
1
तस्येत्यादि - तस्य प्राणाः वालिपुत्रेण अहारिषत हृताः । कर्मणि लुङ् । चिण्वद्भावः । ततो ऽनन्तरं सर्वे रावणयः रावणस्यापत्यानि देवान्तकादयः क्रुद्धाः सन्तो ऽङ्गदं प्रादुद्रुवन् गतवन्तः । '२३१२ । णि श्रि - | ३|१|४८|' इत्यादिना चङ् ॥ १२६१- ततो नील- हनूमन्तौ रावणीनववेष्टताम् ॥
अकारिष्टां गिरींस् तुङ्गान॑रौत्सीत् त्रिशिराः शरैः ८०
तत इत्यादि - ततो रावणीनङ्गदाभिमुखमागच्छतो नीलो हनूमांश्चाववेष्टतां चेष्टितवन्तौ । '२५८३ | विभाषा वेष्टि- चेष्ट्योः | ७|४|९६ |' इत्यभ्यासस्यात्वम् । 'गिरींश्चाकारिष्टां विक्षिप्तवन्तौ । '१५०३ । कृ विक्षेपे' । सिचि वृद्धिः । तांश्च गिरीनिक्षिप्तान् त्रिशिराः शरैस्तुङ्गानरौत्सीत् आवृतवान् । '१५३२ । रुधिर् आवरणे' । १२६२ - परिघेणा वधिष्टा ऽथ रणे देवान्तको बली, ॥
।
मुष्टिना sददरत् तस्य मूर्धानं मारुताऽऽत्मजः. ८१
परिघेणेत्यादि - अथ देवान्तको बली परिघेणावधिष्ट हतवान् । २६९५| आङो यम-हनः ||३|२८|' इति तङ् | अविवक्षित कर्मकत्वात् ' २६९६ । भात्मनेपदेष्वन्यतरस्याम् | २|४|४४ | ' इति इनो बधादेशः । तस्य नतो मूर्धानं मारुतात्मजः मुष्टिना अददरत् दारितवान् । '१५८८। हृ विदारणे' ण्यन्तस्य चङ्परे णौ ‘२५६६। अत् स्मृ-हू-त्वर - १७१४१९५१' इत्यादिनाभ्यासस्यात्वम् ॥ १२६३ - अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैः ॥ युद्धोन्मत्तस्, तु नीलेन गिरिणाsनायि संक्षयम्. ८२
अदीदिपदित्यादि - ततो देवान्तकविनाशादनन्तरं युद्धोन्मत्तः सुतानां रक्षार्थ यः प्रेषितः स वीर्यमदीदिपत् । '२५६५। भ्राजभास - | ७|४ | ३ |' इत्यादिना स्वाभावपक्षे रूपम् । नीलं च शरैरपीपिडत् पीडितवान् । हस्वाभावपक्षे रूपम् । अपीपरदिति पाठान्तरम् । पूरितवानित्यर्थः । ' १६५३ । पृ पूरणे' इति चुरादिः । स तु नीलेन संक्षयं गिरिणा आनायि नीतः । कर्मणि लुङ् ॥ १२६४-अबभ्राजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे, ॥ हनूमता क्षतास् तस्य रणे मृषत वाजिनः ॥८३॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com