________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-बधो' नाम पञ्चदशः सर्गः- ३९१ १२५४-कथं न्बजीविषुस् ते च, स चा अमृत महा-बलः ।।
अयुयुत्सिषता ऽऽश्वास्य कुमारा रावणं ततः ७३ कथमित्यादि-ते ऽल्पाः कथं नाम अजीविषुः जीविताः । स च कुम्भकर्णो महाबलः अमृत मृतः। २५३८॥ म्रियतेलुंङ्-लिङोश्च ॥ १।३।६१।' इति तङ्। '२३६९। हूस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः । अनन्तरं कुमाराः राजपुत्रा देवान्तकादयो रावणं शोचन्तमाश्वास्य अपनीतशोकं कृत्वा अयुयुरिसषत यो मिष्टवन्तः । २६१३। हलन्ताच्च । १।२।१०।' इति सनः कित्त्वम् । २७३४॥ पूर्ववत्सनः ।।३।६२।' इति तङ्॥ १२५५-देवान्तको ऽतिकायश् च त्रिशिराः स नरान्तकः।।
ते चांऽऽहिषत संग्राम बलिनो रावणाऽऽत्मजाः.७४ देवान्तक इत्यादि-ते च रावणात्मजाः संग्राममाहिषत गतवन्तः ।६७८॥ अहि गतौ । किनामानः । देवान्तकः अतिकायः विशिराः नरान्तक इति ॥ १२५६-युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत् ॥
युतानां, निरगातां तौ राक्षसौ रण-पण्डितो.॥७५॥ युद्धेत्यादि-सुतानां रक्षार्थ राजा युद्धोन्मत्तं मत्तं च राक्षसं आञिहत् प्रस्थापितवान् । अंहतेणौ चङ्परे द्वितीयाद्विवचनम् । तौ राक्षसौ रणपण्डितो निरगातां निर्गतौ । '२४५८। इणो गा लुङि ।।४।४५।' ॥ १२५७-तैरजेषत सैन्यानि, द्विषो ऽकारिषता ऽऽकुलाः ॥
पर्वतानिव ते भूमावचैषुर् वानरोत्तमान्. ॥ ७६ ॥ तैरित्यादि-तैः राक्षसैः सैन्यानि अजेषत जितानि । कर्मणि लुङ् । अचिप्रवद्भावपक्षे रूपम् । द्विष आकुला अकारिषत । ते राक्षसा वानरोत्तमान् वानराणां प्रधानभूतान् पर्वतानिव भूमौ अवैषुः पुञ्जीकृतवन्तः । 'चिन चयने । १२५८-अङ्गदेन समं योद्धमघटिष्ट नरान्तकः, ॥
प्रैषिषद राक्षसः प्रासं, सो ऽस्फोटीदङ्गदोरसि. ७७ अङ्गदेनेत्यादि-नरान्तकः कुमारः अङ्गदेन सह योद्धुमघटिष्ट घटते स्म । राक्षसः प्रासं कुन्तं प्रैषिषत् । 'इषु गतौ' इत्यस्य ण्यन्तस्य चङि रूपम् । स प्रासोऽङ्गदोरसि अस्फोटीत् विशीर्णः ॥ १२५९-अश्वान् वालि-सुतो ऽहिंसीदतताडच् च मुष्टिना.॥
रावणिश् चा ऽव्यथो योद्धमारब्ध च महीं गतः.७८ अश्वानित्यादि-वालिसुतो ऽश्वान् रथयुक्तानहिंसीत् व्यापादितवान् । "१५४९। तृह हिसि हिंसायाम्' । मुष्टिना पाणिना अतताडत् भाहतवान् '१६९३ । तड भाघाते' । ताडनं ताडः । '३१८४॥ भावे ।।३।१०।' घञ् । तार्ड Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com