________________
३९० भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
अपक्षातां सहस्रे द्वे तद् - देहेन वनौकसाम् ॥ ६९ ॥
ऐन्द्रेणेत्यादि -- ऐन्द्रेण शरेण हृदयेऽध्यात्सीत् विद्धवान् । स तथा हतो गामध्यवात्सीत् भूमिमध्युषितवान् । तस्य पततो देहेन वनौकसां वानराणां द्वे सहस्रे अपिक्षातां चूर्णिते । '१५४६। पिधू संचूर्णने' । कर्मणि लुङ् ॥
१२५१ - अस्ताविषुः सुरा रामं दिशः प्रापन् निशाचराः, ॥ भूकम्पष्ट सन्द्रा, व्यचालीदम्भसां पतिः. ७०
"
अस्ताविषुरित्यादि - तस्मिन् हते सुरा देवा राममस्ताविषुः स्तुवन्ति स्म ।'२३८५। स्तु-सु-धूञ्भ्यः परस्मैपदेषु । ७|२|७२ |' इतीट् । निशाचरास्तद्भयाद्दिशः प्रापन् प्राप्तवन्तः । ‘१३४१। आपू व्याप्तौ ।' सानीन्द्रा सकुलपर्वता भूमिरकम्पिष्ट चलति स्म । अम्भसां पतिः समुद्रो व्यचालीत् प्रक्षुभितवान् ॥ १२५२ - हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन् ॥
अरोदीद् रावणो ऽशोचीन्, मोहं चा ऽशिश्रियत् परम्. हतमित्यादि - हतं व्यापादितं कुम्भकर्ण रक्षांसि राजानं रावणमशिश्रवन् श्रावितवन्तः । शृणोतेर्ण्यन्तात् सनीव कार्यमिति '२५७८॥ स्रवति शृणोति - १७१४/८११' इत्यादिना अभ्यासस्य विकल्पेनेट् । एवं च कृत्वा भशुश्रुवन्निति पाठान्तरम्। द्विकर्मकता तु बुद्ध्यर्थत्वात् । श्रुत्वा च रावणो ऽरोदीत् अश्रूणि मुमोच । अशोचीत् शोचति स्म । ' तेनापि त्यक्तो ऽस्मि' इति । परं च मोहं मूर्च्छामशिश्रियत् । ' ९६३ । श्रिञ् सेवायाम्' । ' २३१२ | णि श्रि - | ३|१|४८ ' इत्यादिना चङ् ॥
युग्मम्
१२५३- अपप्रथद् गुणान् भ्रातुरचिकीर्तच् च विक्रमम्, ॥ 'क्रुद्धेन कुम्भकर्णेन ये ऽदर्शिषत शत्रवः ॥ ७२ ॥
अपप्रथदित्यादि -- भ्रातुर्गुणान् बुद्धिमत्त्वादीनपप्रथत् प्रख्यापितवान् । '८१८ प्रथप्रख्याने' घटादिः । तस्मात् ण्यन्ताच्चङि '२५६६ । अत् स्मृ-दृत्वर ।७।४।९५ ' इत्यादिनाऽत्वम् । विक्रमं च शौर्यमचिकीर्तत् उदीरितवान् । '१७७५ | कृत संशब्दने' इति चौरादिकः । '२५८९ । जिघ्रतेर्वा | ७|४|६|' इत्यधिकृत्य ' २५६७ । उर्ऋत् |७|४|७|' इति इकाराभावपक्षे रूपम् । '२५७१ । उपधायाश्च | ७|१|१०१ ॥ ' इतीत्वम् । विक्रमकीर्तनं चाह - क्रुद्धेन क्रोधकर्त्रा कुम्भकर्णेन ये शत्रवोऽदर्शिचत दृष्टाः । कर्मणि लुङ् । '२७५७। स्यसिच् ।७।४ । ६२ । ' इत्यादिना दृशेश्चिण्वदिट् ॥ Shree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com