________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधों' नाम पञ्चदशः सर्गः- ३८९
संत्रस्तानामित्यादि-तेन सत्त्वमपाहारि अपहृतम् । सर्वेषां त्रस्तत्वात् । कर्मणि लुङ् । लक्ष्मणेन अस्य किरीटं मुकुटं तथा कवचमच्छेदि छिन्नम् । कर्मणि लुङ् ॥
युग्मम्१२४६-अभेदि च शरैर् देहः प्राशंसीत् तं निशा-चरः ॥
अस्पर्धिष्ट च रामेण तेना ऽस्या ऽक्षिप्सतेषवः, ६५ अभेदीत्यादि-देहश्चास्य शरैः करणभूतैरभेदि छिन्नः । निशाचरश्च तं लक्ष्मणं प्राशंसीत् स्तुतवान् 'साधु भवता युद्धम्' इति । रामेण सहास्पर्धिष्ट योद्धं स्पर्धते स्म । तेन रामेणास्य इषवः अक्षिप्सत क्षिप्ताः । कर्मणि लुङ् । हलन्तादात्मनेपदे सिचः कित्वाद्गुणाभावः ॥ १२४७-यैरघानि खरो, वाली, मारीचो, दूषणस् तथा.॥ ___ अवामस्त स तान् दर्पात् , प्रोदयंसीच् च मुद्गरम्. ६६
यैरित्यादि-यैः शरैश्च खरो ऽघानि व्यापादितः । कर्मणि लुङ् । ते अक्षिप्सतेति योज्यम् । स कुम्भकर्णस्तान् नन् दर्पादवामस्त अवमन्यते स्म । मुद्गरं प्रोदयंसीत् उद्गुणवान् । '२३७७॥ यम-रम-1७।२।७३।' इति सगिटौ ॥ १२४८-वायव्याऽस्त्रेण तं पाणिं
रामो ऽच्छेत्सीत् सहाऽऽयुधम् , ॥ आदीपि तरु-हस्तो ऽसा
वंधावीच चा ऽरि-संमुखम्. ॥ ६७ ॥ वायव्यास्त्रेणेत्यादि-येन पाणिना मुद्गरमुदयंसीत् तं पाणिं सहायुधं रामो वायव्यास्त्रेण मरुद्देवतादत्तेन अच्छेत्सीत् । छिन्नपाणिश्वासौ तरुहस्तः । तरुर्हस्ते यस्येति तरोः प्रहरणत्वात् सप्तम्यन्तस्य परनिपातः । आदीपि दीप्यते स्म । '२३२८।' दीप-जन-३।११६॥' इत्यादिना कर्तरि चिण् । अरिसंमुखं च रामामिमुखमधावीत् वेगेन गतवान् ॥ १२४९-स-वृक्षमच्छिदत् तस्य शक्राऽस्त्रेण करं नृपः, ॥
जो चा ऽशीशतद् बाणैरप्रासीदिषुभिर् मुखम्. ६८ सवृक्षमित्यादि-तस्य सवृक्षमपि करं नृपः शक्रास्त्रेणाच्छिदत् । '२२६९। इरितो वा ।३।१५७।' इत्यङ् । जो चान्यैर्बाणैरशीशतत् गमनासमर्थे कृत. वान् । शदेणौँ '२५९८॥ शदेरगतौ-19॥३॥४२॥ इति तत्वम् । मुखं चेषुभिरप्रा. सीत् पूरितवान् । '११३५। प्रा पूरणे' ॥ १२५०-ऐन्द्रेण हृदये ऽव्यात्सीत्,
सो ऽध्यवात्सीच् च गां हतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com