________________
३८८ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, अभ्यासस्य अत्वम् । राघवौ च योद्धुमचचेष्टत् व्यापारयति स । '२५८३॥ विभाषा वेष्टि-चेष्ट्योः ७४४१९६।' इत्यभ्यासस्यात्वपक्षे रूपम् । स कुम्भकर्णो योद्धुं न्यवर्तिष्ट निवृत्तः । निवृतिचूतादिः। '२३४५। द्युयः-१॥३॥९॥' इत्यादिनात्मनेपदे नाङ । वानराश्चायुत्सन्त युध्यन्ते स्म ॥
१२४२-अविवेष्टन् नृपाऽऽदेशादारुक्षेश् चाऽऽशु राक्षसम्॥ ( तानधावीत् समारूढांस् ते ऽप्यत्रंसिषताऽऽकुलाः.६१
अविवेष्टन्नित्यादि-वानरा राक्षसमविवेष्टन् वेष्टयन्ति स्म । अत्र राम इत्यादृष्टव्यम् । यतस्तदादेशादाशु ते राक्षसमारुक्षन् आरूढाः । रुहः २३३६॥ शल इगुपधात्-३।११४५' इत्यादिना क्सः । वानरा एव नृपादेशादविवेष्टनिति व्याख्याने स्वातन्त्रयेण तेषां कर्तृत्वात्प्रयोजकत्वं न घटते। तांश्च वानरानारूढान् कुम्भकर्णो ऽधावीत् धूतवान् । '२२७९ । स्वरति-७।२।४४।' इत्यादिना इद । हलवृद्धः '२२६८। नेटि ७१।४।' इति प्रतिषेधः। ते व्याकुलाः सन्तोऽत्रंसिषत स्रस्ताः । पतिता इत्यर्थः । '८०६। स्रंसु भ्रंसु अव खंसने' द्युतादिः । परस्मैपदाभावाबाङ्॥ १२४३-अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच च निर्-दयम्.॥
ते चाऽप्यघोरिषुोरं, रक्तं चाऽवमिषुर् मुखैः. ६२ अग्रसिष्टेत्यादि-कुम्भकर्णः कांश्चिदग्रसिष्ट ग्रसतेस । कांश्चिनिर्दयं समा. निक्षत् । १२६२। श्लिष आलिङ्गने' । '२३३६। शल:-३।११४५।' इति क्सः । ते चाश्लिष्टाः महाघोरं श्रुतिकटुकं अघोरिपुः शब्दमुक्तवन्तः । १४३३। घुर भीमार्थ-शब्दयोः' इति तुदादिरनुदात्तेत् । रक्तं चावमिषुः उद्गीर्णवन्तः ॥ १२४४–स चाऽपि रुधिरैर् मत्तः स्वेषामप्यदयिष्ट न, ॥
अग्रहीच चा ऽऽयुरन्येषामरुद्ध च पराक्रमम्॥६३॥ स चेत्यादि-स चापि कुम्भकर्णः रुधिरैर्मत्तः स्वेषामपि नादयिष्ट न दयां कृतवान् , किमपरेषाम् । ६१३। अधीगर्थ-२॥३॥५२॥' इति षष्ठी। अन्येषां वानराणां आयुर्जीवितमग्रहीत् गृहीतवान् । '२२९९। हयन्त-७।२।५।' इति न वृद्धिः। 'भदोहीवाऽऽयुः' इति पाठान्तरम् । तत्र तथाभूतं कुम्भकर्ण दृष्टवतामन्येषामायुरदोहीव स्वयं गतमिव । '२७६९। दुहश्च ।३।१।६३॥' इति कर्मकर्तरि चिण्। पराक्रमं चान्येषामरुद्ध च भावृतवान् । रुधेः कर्मामिप्राये तक। '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । २२८०। झषस्तथो?ऽधः ।।२।४।। '५२। झलां जश् झशि ।।४।५३॥ ॥ १२४५-संत्रस्तानामपाहारि सत्त्वं च वन-वासिनाम् , ॥
अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा.॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com