________________
३८२ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण - रूपे द्वितीयो वर्गः,
"
१२१७ - प्राचुचूर्णच् च पादाभ्याम॑विभीषत च द्रुतम् ॥ अतहींच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान्. ॥३६॥
प्राचुचूर्णदित्यादि - पादाभ्यां प्राचुचूर्णत् पिष्टवान् । '१६५७। चूर्ण प्रेरणे' इति चुरादिः । एवं चूर्णयन् द्रुतमबिभीषत भीषयते स्म । '२५९५ । मियो हेतुभये षुक् |७|३|४०|' | '२५९४ | भी - स्म्योर्हेतुभये | १|३|६८|' इति तल । शूलेन प्रहरणेन अतींच्च विद्धवान् । '१५४९। तृह हिंसायाम् ।' हयन्तत्वान्न वृद्धिः ॥
१२१८-अतौत्सीद् गदया गाढम॑पिषच् चोपगूहनैः ॥
जानुभ्याम॑दमीच् चाऽन्यान्, हस्ते - वर्तम॑वीवृतत् ॥
"
अतौत्सीदित्यादि -- कांश्चिद्गदया गाढमतौत्सीत् व्यथितवान् । उपगूहनैरपिषत् चूर्णितवान् । लुदित्वादङ् । अन्यांश्च जानुभ्यां भदमीत् शासितवान् । अवष्टभ्य नियमितवानित्यर्थः । हृयन्तत्वान्न वृद्धिः । हस्तवर्तमवीवृतत् हस्ताभ्यां वर्तितवान् पिष्टवानित्यर्थः । वृतेर्ण्यन्तात् '३३६० । हस्ते वर्ति- ग्रहो ः | ३ | ४ | ३९ | ' इति णमुल् । '३३६६ । कषादिषु यथाविध्यनुप्रयोगः | ३ | ४|४६ | ' ॥ १२१९ - अदालिषुः शिला देहे, चूर्ण्यभूवन् महा-द्रुमाः, ॥ क्षिप्तास् तस्य न चा ऽचेतीत् तार्नसौ, ना ऽपि चा ऽक्षुभत्. ॥ ३८ ॥
अदालिषुरित्यादि - वानरैस्तस्य देहे क्षिप्ताः शिला भदालिषुर्विशीर्णाः । '५८९। दल विशरणे ।' भौवादिकः । लान्तत्वादृद्धिः । महाद्रुमाचूर्ण्यभूवन्, चूणींभूताः । न च तान् क्षिप्तानसौ कुम्भकर्णो अचेतीत् चेतितवान् । '३९ | चिती संज्ञाने ।' नापि चाक्षुभत् क्षुभितः | १३१८ | शुभ संचलने' दिवादिः ॥
1
१२२० - अद्राष्टां तं रघु-व्याघ्रौ आख्यच् चैनं विभीषणः ॥ 'एष व्यजेष्ट देवेन्द्रं, नाशङ्किष्ट विवस्वतः. ॥३९॥ अद्राष्टामित्यादि - तं तादृशौ रघुव्याघ्रौ रामलक्ष्मणावद्राष्टां दृष्टवन्तौ । विभीषणश्चैनमाख्यत् कथितवान् 'कुम्भकर्णोऽयम्' इति । '२४३८ । अस्यति|३|१|५२ | ' इत्यादिनाऽछ । 'प्रभावं चास्य कथयन्नाह - देवेन्द्रमेष व्यजेष्ट विजितवान्। ‘२६८५। वि- पराभ्यां जेः | १|६| १९|' इति तङ् । विवस्वतः सूर्यात् नाशङ्किष्ट न शङ्कते स्म ॥
१२२१- यक्षेन्द्र-शक्तिम॑च्छासीन्, ना प्रोथदस्य कश्चन ॥ कुम्भकर्णान् न भैष्टं मा युवाम॑स्मान् नृपा॒ऽऽत्मजौ ॥
यक्षेत्यादि - यक्षेन्द्रस्य कुबेरस्य शक्ति प्रहरणमच्छासीत् खण्डितवान् । '१२२१। छो छेदने ।' अस्य तु कश्चन कश्चित् नाप्रोधीत् न प्रभवति स्म । शक्त्यै
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com