SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३८१ 1 आदेशसकारस्य पत्वं हुत्वं च । अपरे ऽम्बुधौ न्यमानिमग्नाः '२५७७ । मस्जिनशोर्झलि |७|१|६० |' इति नुम् । मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति । अनुषङ्गसंयोगादिलोपार्थम् ॥ १२१३-अन्ये त्व॑लङ्घिषुः शैलान्, गुहाव॑न्ये न्यलेषत, ॥ केचिदा॑सिषत स्तब्धा, भयात् केचिदघूर्णिषुः ॥ ३२ ॥ अन्ये त्वित्यादि - अन्ये शैलानलङ्घिषुः भयादारूढा इत्यर्थः । अन्ये गुहासु न्यलेषत । ‘१२१४ । लीड् लेषणे' । केचित् स्तब्धाः स्थाणुवदासिषत आसते । अपरे भीत्या भयात् अघूर्णिषुः घूर्णन्ते स्म ॥ १२१४- उदतारिषु॑रम्भो- धिं वानराः सेतुना ऽपरे ॥ अलज्जिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चौर्जितम्. ३३ उदतारिषुरित्यादि - अपरे वानराः सेतुना अम्भोधिमुदतारिषुः उत्तीर्णाः । तत्र तेषु तथाभूतेष्वङ्गदो ऽलजिष्ट लज्जते स्म । ऊर्जितं च पराक्रमं प्रत्यवास्थित प्रतिपन्नवान् । ' २६८९ | समवप्रविभ्यः स्थः | १|३|२२|' इति तङ् । '२३६९। हस्वादङ्गात् |८|२|२७|' इति सिचो लोपः ॥ १२१५-सत्त्वं समदुधुक्षच् च वानराणामुयुद्ध च ॥ ततः शैलानुदक्षै सुरुंदगूषित द्रुमान् ॥ ३४ ॥ सत्त्वमित्यादि - वानराणां सत्वं समदुधुक्षत् सन्दीपितवान् । धुझेः सन्दीपनार्थात् ण्यन्ताश्लेश्वङ् । स्वयमयुद्ध च युध्यते स्म । ' २२८१ । झलो झलि १७।२।२६।' इति सिचो लोपः । ततः सत्त्वधुक्षणानन्तरं वानराः शैलानुदक्षैप्सुः उत्क्षिप्तवन्तः । हलन्तलक्षणा वृद्धिः । द्रुमांश्चोदगूरिषत उत्थापितवन्तः ।‘१८२६। गूरी उद्यमने' ॥ १२१६ - अनर्दिषुः कपि- व्याघ्राः, सम्यक् चा ऽयुत्सताssहवे, ॥ तान॑मदी॑द॑खादीच् च, निरास्थच् च तलाऽऽहतान् ॥ ३५ ॥ अनर्दिषुरित्यादि - उत्क्षिप्तशैलदुमाः कपिव्याघ्रा भनर्दिषुः नर्दितवन्तः 'दृष्टो ऽस्माभिः क्व यास्यसि' इति । सम्यक् निर्भयमाहवे अयुत्सत युध्यन्ते स्म । ‘२६१३। हलन्ताच्च । १।२।१८ | ' इति सिचः किचे गुणाभावः । तान् प्लवङ्गमान् युध्यमानान् कुम्भकर्णो मर्दीत् मृदितवात् । मृदेर्लघूपधगुणः । अखादीच्च भक्षितवान् । हस्ततलेनाहतान् निरास्थत् इतस्ततः क्षिप्तवान् । ' २४३८ । अस्यति - १३/१/५२ |' इत्यादिना भङ् । '२५२० । अस्य तेस्थुक् |७|४|१७|| Shree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy